________________
5
प्रबन्धपञ्चशती
[ 560 ] अथ धर्मघोषसूरि सम्बन्धः ।
ततो लघुतपागच्छे धर्मकीर्तिरुपाध्यायो विद्यानन्दसूरिभ्राता बभूव । ततः संघस्यानुमति छात्वा धर्मकीर्तेरुपाध्यायस्य पात्रकम्बलसूरिमन्त्रपानवस्त्रादिदानात् प्रीणयित्वा सूरिपदं दापितम् । व्रतो धर्मकीर्तिरुपाध्यायस्य धर्मघोषसूरिर्नाम दत्तम् । धर्मघोषसूरेः पेथडसाधुमहान् श्राद्धोऽजनि ।
10
३१४ ]
धर्मघोष सूरयो देवपत्तने समुद्रोपकण्ठे प्राप्ता बहिर्भूमौ यदा तदा क्षुल्लेनोक्तम्- समुद्रो 'रत्नाकर' उच्यते, रत्नानि न दृश्यन्ते । ततो गुरुणा ध्यानबलात् समुद्रपार्श्वात् क्षुल्लकस्य रत्नं दर्शितम् । ततो वेला बलात् समुद्रे गतम् ।
देवपत्तने गोमुखं यक्षं सोमनाथप्रासादे स्थितं हिंसाकुर्वाणं कारयन्तं प्रबोध्य शत्रुञ्जयतीर्थे गुरवः स्थापयामासुः ।
एकदा विद्यापुरे दुष्टश्राविका विहारितानि वटकानि गुरुभिदृष्टानि, प्रोक्तं साधूनां पुरः, एतानि स्थाप्यता कल्ये पाषाणा भवन्ति । ततस्तथाकृते तथा दृष्टानि तानि । धर्मघोषसूरीणां व्याख्यानं कुर्वतां तया दुष्ट्या श्राविकया कण्ठे केशगुळ्क्रनकं विकुर्वितम् । गुरुभिर्विद्याबलान्मुस्वाद बहिः कर्षितम् । ततो गुरुभिः मन्त्रितः पट्टकस्तस्याः श्राविकाया उपवेशाय दापितः । स च गुह्यदेशे विलग्नः । चंदनकदानावसरे अपराऽऽस्तिकाभिरुक्तम् - "उतिष्ठ वन्दनकानि ददस्व ।” सा प्राह - " पश्चाद् दास्यन्ते ।” सर्वासु श्राद्धीषु गतासु गुरूणां पुरो जगौ – “अद्यप्रभृति मया विघ्नं न कार्यम्, मुच्यतां मां, प्रसादं कुरु । ततो गुरुभिरभिग्रहं प्राहिता, ततो मुक्ता ।
16
एकदोज्जयिन्यां गुरवोऽभ्येत्य तस्थुः । साधवो बहिर्भूमौ [[म] गताः योगिना दुष्टेन प्रोक्ताः । अत्रायातः स्थिरैः स्थेयम् । साधुभिः स्थिरं स्थिता स्मेति प्रोचे किं करिष्यसि ? तेन साधूनां दन्ता दर्शिता प्रौढाः । साधुभिर्गुरूणां योगिवचः प्रोक्तम् । ततस्तेन योगिना शालायां सर्पा विकुर्विता 30 गुरुभिश्च नकुलाः प्रौढाः । ततो गुरुणा तथा जप्तं यथा राटिं कुर्वाणो विहितः पर्यस्तिको व्याख्यानावसरे आनीतः । ततो गुरुपादयोः पतितोऽनुकूलः कृतः, श्राद्धैर्मोचितः । एकदा गुरुभिरन्यो योगी दुष्टः सिंहादिरूपैः साधून भापयन् निषिद्धः ।
एकस्मिन् पुरे गुरुभिर्द्वारमभिमन्त्रय सुप्यते । अन्यदा विस्मृते द्वारे शाकिनीभिर्गुरुसत्का पट्टिकोत्पादिता । चतुष्पदे गुरुभिर्ज्ञाता तत्रैव स्तंभिता वाचा दाने मुक्ता । कस्यचित् सर्पदंशे 25 प्रातः काष्टभारिकामध्ये विषापहारवल्लो दर्शिता, तया विषमुत्तारितं इत्याद्या बहवोऽवदाता जाताः ।
तत्कृता ग्रन्थाः सङ्घाचारवृत्तिः सुअधम्मकित्तोअंतं स्तोत्रं, कार्यस्थिति-भवस्थितिस्तवौ, २४ जिनभवनस्तवाः, २४ शस्त्राशमस्तोत्रं, "देवेन्द्रंरिति” श्लेषस्तत्रः, यूयं युवां त्वात्विमिति श्लेष - स्तुतयः ४, केनचित् मन्त्रिणोक्तमष्टयमकमयं काव्यं प्रोच्योक्तम् - "ईग् काव्यमधुना न केनापि क्रियते ।" ततो गुरुभिः प्रोक्तम्- "अनस्तिर्न वाच्यः ।" तेनोक्तं तर्हि दर्शयत । गुरुभिः प्रोकं 30 कल्ये यागम्यम् । ततो गुरुभिः "जय वृषभनाभि स्तूयसे नित्य ] नाभिरिति २८ काव्यानि कृतानि, रात्रौ भित्तौ लिखितानि, प्रातस्तस्मै दर्शितानि । स चर्मस्कृतो गुरून् मत्वा श्राद्धो जातः । वैः सूरिभिः सोमप्रभसूरीण सूरिपदं दत्तम् । मरणावखरे धर्मघोषसूरिभिः सिद्धान्तपुस्तिका
"Aho Shrutgyanam"