________________
२९६ ]
प्रबन्धपश्चशती प्रोक्त्वा [प्रोच्य ] पातं ददाति रत्नं सपादलक्षं लभते । विक्रमाः साहसी यदा हा देवमिति न वदति घातं ददाति । भट्टमात्रस्तदा छलाप्राह भवन्माता मृता श्रता। एवं अत्वा विक्रमाचा देवमिति वदन भालमाहत्य कुदालमधस्तादृढमाहतवान् ,तदाऽकस्माद्ररत्नं प्रादुरासीत् । भट्टमात्रो. रत्नं विक्रमार्कहस्ते मुक्स्वा प्राह तव माता कुशलिन्यस्ति । मया रत्नप्राप्तिनिमित्तं भवान् [एवं 5 कारितोऽत्रैव ततो रत्नं अधः क्षिप्त्वा विक्रमार्कः प्राह
"धिग् रोहणं गिरि दीनदारिद्रयव्रणरोहणम् ।
दत्ते हा देवमित्युक्ते रत्लान्यर्थिजनाय यः ॥१॥" सतो रत्नं तत्रैव त्यक्त्वा तापोतीरे समागतस्तत्र रात्रौ शिवाशब्दं श्रुत्वा भट्टमात्रोऽवक एषा शिवा वक्ति नदीप्रवाहे [तीरे] साभरणा खी मृता पतितास्ति [स] तत्र गत्वा तो तथा10 वस्थां दृष्ट्वा निर्लोभात् त्यक्त्वा पश्चात् सुप्तः । पुनः शिवाशब्दं श्रुत्वा भट्टमात्रोऽवम् एषा शिवा
वक्ति विक्रमार्कस्य मासे प्रति अवन्त्या राज्यं भविष्यति ततोऽपतश्चलितौ वर्मनि भतृहरिराज्य स्वरूपं ज्ञात्वा भट्टमानं प्रति प्राह यदि राज्यं भवति तदा त्वं मे प्रधानः। ततोऽवधूतवेषभृत् चचाल अवंत्यामागतः । तदा तत्र यो यो राज्ये निवेश्यते तं तं सोऽग्निवेतालो मारयतीत्यादि मत्वा कोऽपि राज्ये नोपविशति । एवं श्रुत्वा विक्रमार्को मंत्रिपार्श्वे प्राह अहं वैदेशिकोऽस्मि यदि मेले (समेले) समेति च तदाहं राज्ये उपविशामि । तैरुक्तोऽग्निवेतालसम्बन्धः। ततो मन्त्रिभिमानिते विशेषबलिं कारयित्वा राज्ये उपविष्टो रात्रौ शय्यायां निर्भीः स्थितो। वेतालः समागाव हन्तुं । विक्रमार्को जगो मे कृतवलिं विलोकय पश्चादहं हन्तव्यः। ततः स वलिं दृष्ट्रा हृष्टो जगो त्वं राजाऽत्र भव चिरं सदैवं बलि: कायः। भूपोऽवग एवं भवतु । ततो बेतालो गतः प्रातः
जीवन्तं तं दृष्ट्वा हृष्टा मन्त्रिणः । द्वितीयदिने बलिं कृत्वा प्रपच्छ मम कियदायुः । ततस्तेनोक्तं 90 वर्षशतं । ततो जगौ विक्रमार्कः ९९ वर्षाणि कुरु अथवा १०१ । स प्राहाधिकं न्यूनं न भवति ।
ततोऽग्रेतने दिने बलिमकृत्वा वेतालं जिस्वा स्वसेवक राजा चक्रे । ततः स्वरूपं प्रकटीकृत्य मन्त्रिणो मोदयामास । भट्टमात्रः प्रधानः कृत । इति विक्रमार्कराज्यप्राप्तिसम्बन्धः ॥५२९॥
15
[530 ] अथ प्रथमस्वर्णनृप्राप्तिविक्रमार्कसम्बन्धः ।
अवन्त्यां एकेनेभ्येन पुष्याः कर्मस्थायं कारयता महानावासः कारितः । स च देवताधिष्ठि25 तोऽभूत् एकदा वर्यमुहूर्ते इभ्य उषितुं रात्रौ स्थितो यावत् आवासे वक्त्यूव "पतामि पतामि"
इभ्यो बिभ्यन प्राह मा पत । एवं सदाऽवासो वदति योऽन्यो वसति तस्य पुरोऽप्येवं वदति तस्यान्तः स शून्य एव स्थितः । ततो राजा विक्रमार्केण लग्नं । सर्व दरवेभ्याय आवासो गृहोतः रात्रौ सुप्तस्तस्मिन्नावासे यावदावासो जगौ पतामि २ विक्रमार्क अतीव साहसी प्राह स्वर्ण
मयो भूत्वा पत। ततो विक्रमार्कसाहसात् अषः स्वर्णपुरुषः पपात । प्रातर्महोत्सवपूर्व स्वर्णपुरुष 30 तत्रैव स्थापयामास । प्रतिदिनं मस्तकं मुक्त्वा छेदं छेदं स्वर्ण गृह्यते रात्री तारगेव ।
एवं प्रथमस्वर्णनृप्राप्ति विक्रमार्कसम्बन्धः ॥५३०॥
"Aho Shrutgyanam"