________________
चतुर्थोऽधिकारः
[ २९५ [:27 ] अथ कपालत्रयपरीक्षासम्बन्धः । एकदा पत्तनाद् डामरमन्त्री भोजभूपपार्श्वे कपालनयमानीतवान् । राजाऽवग-मंत्रिन् । किमर्थ इदमानीतमस्ति ? मन्त्री प्राह, स्वामिनः सन्ति वहवो बुधास्ते परीक्षामेतेषां कुर्वन्तु । यदा कोऽपि न वेत्ति तदा डामरेण एकस्य कपालस्य कर्णे दवरकः क्षिप्तो वक्रेण निर्गतः, द्वितीयस्य कर्ण क्षिप्तः कर्णेऽन्यस्मिन् निर्गतः । तृतीयस्य कर्णे मितः कण्ठे निर्गतः । ततो डामरोऽवग, भावार्थोऽस्य कथ्यतां । यदा कोऽपि न वेत्ति तदा डामरः प्राह । १-यस्य कर्णे गुणः क्षिप्तः वक्त्रेण निर्गतः तस्य कपर्दिमूल्यं । श्रुतमात्रस्य दोषादेर्यथा तथा जल्पनाद् । २-योऽस्य गुणः कर्ण क्षिप्तः कर्ण निर्गतः तस्य लक्षमूल्यं, यतो दोषं विस्मारयति श्रुतमश्रतं करोति । ३-यस्य गुणः कण्ठे क्षिप्तः कण्ठस्याऽधो गतः तस्य मूल्यं न, यतो हृदये दोषादि स्थापयति । एवं त्रिविधाः मनुष्याः कपालसदृशा भवन्ति, अतो भूपतिभिरन्यैरपि लोकच यकपालवत् स्थेयं । इति कपालत्रयपरीक्षासंबंधः ।।५२७॥ 10
[ 528 ] अथ भर्तृहरिवैराग्यसम्बन्धः । अवन्त्यां भर्तृहरिराजराज्ये एको विप्रो मुईदो निःस्वो देवी लक्ष्मीहेतवे आरराध ! तया तुष्टया तस्याल्पपुण्यं मत्वा बीजपूरं ददे । प्रोक्तं च गृहाणेदं अनेन बहु जीव्यते नीरोगता च भवति । तव भाग्यं नास्ते अतो बीजपूरं दत्तमस्ति । स च विप्रो गृहे नीत्वा भोक्तमिच्छन् दध्यौ । इदं बीजपूरं बहुजीवितदायितेन य उपकारी जगदाधारः स्यात्तस्य [तस्मै] दीयते । एवं 15 विमृश्य राझे दत्तं । प्रभावोऽप्युक्तः देवीप्रोक्तः । राजा तदादाय तस्मै पारितोषिकं दस्वा भोक्तमुपविष्टो दध्यौ, मम बहुजीवितेन किं अभीष्टायै राज्यै दत्तं. भूपेन प्रभावः प्रोक्तः । तया ध्यातं मम बहुजीवितेन किं ? ततस्तया अभीष्टस्य हस्तियकस्य प्रभावकथनपूर्व दत्तं । हस्तिपकेन ध्यातं मम बहुजीवितेन कि? अतो मया अभीष्टाये वेश्याय दीयते ततस्तस्ये दत्त, वेश्यया ध्यात ममानेन भक्षितेन किं प्रजापालाय भपाय ददामि । ततो वेश्यया भर्तृहरये दत्तंभितह रिम्ततफलमुपलक्ष्य चकितः । पल्यादि-पृच्छनतः फलागमनसंबंध झातवान् । ततोऽसारसंसारं मत्वा प्राहयां चिन्तयामि सततं मयि सा विरक्ता, साप्यन्यमिच्छति जनं स जनोऽन्यसक्ता। अस्मत्कृते च परितुष्यति काचिदन्या, धिम् तां च तं च मदनं च इमां च मां च ॥ सम्मोहयन्ति मदयन्ति विडम्बयन्ति, निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणाम् , किन्नाम वाम-नयनान समाचरन्ति ॥२॥
25 एवं ध्यात्वा तृणवद् राज्यं त्यक्त्वा भर्तृहरितं जग्राह
इति भर्तृहरिवैराग्यसम्बन्धः ॥५२८॥ _ [529 ] अथ विक्रमार्कराज्यप्राप्तिसम्बन्धः । विक्रमार्को भ्रमन्नन्यदा भट्टमात्रयुतो रोहणगिरी गतः । तत्र रोहणगिरी यो हा दैवमिति' ।
"Aho Shrutgyanam"