________________
२८६ ]
प्रबन्धपती
विद्वन् वद क चलितोऽसि समविद्या,
. पारंगमं कलयितुं किल भोजराजं । वेत्त्यक्षराणि न हि वाचयितुं स राजा,
मद्य ललाटलिखितादधिकं ददौ यः ।। ततो हृष्टं अवन्तीसमीपे गतं । तत्र कुटुंबं मुक्त्वा पुरोमध्ये गन्तुं विद्वान् चचाल । रजक __वस्त्रं झालयन्तं प्रति प्राह सः-अस्मिन् पुरे का का वार्ता, कीहक पुरं विद्यते, स रजको जगौ ।
अश्वा वहन्ति भवनानि सतोरणानि, गावश्चरन्ति कमलानि सकेसराणि ।
पीतंर दधिर्नास्ति तिलेषु तैलं, प्रासाद, गेषु२ मृगाश्चरन्ति ॥१॥
विद्वान् दध्यौ रजकोऽपि विज्ञः ततोऽग्रे पुरद्वारे बालिका पृष्टा तेन, त्वं कस्य पुत्री ? 10 साऽवग
मृतका यत्र जीवंति निःश्वसंति गतायुषः । स्वगोत्रे कलहो यत्र तस्याहं कुलबालिका ।।२।।
___ (लोहकार-पुत्री) ततो दक्षिणद्वारे बालिकैका मिलिता पृष्ठा तेन, त्वं कस्य पुत्री, सा प्राह
पर्वताग्रे रथो याति भूमौ तिष्ठति सारथिः । चलते वायुवेगेन तस्याहं कुलबालिका ॥३॥
(कुम्भकार-पुत्री) स चमत्कृतः पश्चिमद्वारे पूर्ववद् बालिका पृष्टाऽवग
सस्नेहा यत्र निस्नेहा भ्रमति भ्रमवर्जिताः । त एव स्नेहदा लोके तस्याहं कुलबालिका ॥४॥
(चाक्रिकस्य-रथकारस्य पुत्री) उत्तरदिक बालिका पृष्टा घटे किमस्तिमदः प्रमादः कलहोऽतिनिद्रा, विवेकविज्ञानकलाक्षयश्च । महत्त्वकीर्तिक्षतिरर्थनाशो, ऽसत्यं दोषगणो घटेऽस्मिन् ॥५॥
(मदिरा३) १. पीतं च यत्र दधि, (२) प्रासाद वारशिखरेषु । ३. विहिता निविषा नागा, देवाः पक्तिविजिताः । द्रुमाच्छायाविहीमाच, तस्याहं कुलबालिका । (असि-पुत्री)
ग्रीवा नास्ति, शिरो नास्ति, हस्ती कार्यविजितौ । स जीवो मानुषं खादेत, तस्याहं कुलबालिका (किंपाकफलम् ) इत्यपि क्वचित् ।
25
"Aho Shrutgyanam"