________________
२८. ]
সম্বন্ধনী कतिपयदिवसस्थायी पूरी दूरोन्नत्तोऽपि भविता ते ।
तटिनी तटद्रुपातिनी-पातकमेकं चिरस्थायि ॥४॥ इति आर्याचतुष्टयं कंकणे लेखयित्वा सर्वे पण्डिाताना हस्ते बंधयामास ।
यदनस्तमिते सूर्ये न दत्तं धनमर्थिनां । [ते] तद्धनं नैव जानामि, प्रातः कस्य भविष्यति ॥५॥
इति भोजकृतदानार्थसम्बन्धः ॥५०७॥
[508 ] अथ जानुदघ्नं श्रुतिदानसम्बन्धः । एकदा भोजराजा राजपाटिकायां बहिः क्रीडां कृत्वा नदी तीरे समागतः । उत्तीर्ण नदीजलं विप्रं मस्तकदत्तं काष्टभारं वीक्ष्य प्राहेति
-कियन्मानं जलं ? विप्र ! द्विजः प्राह प्रत्युत्तर--जानुदघ्नं नराधिप । राजाऽवग-ईद्दशी किमवस्था ते ? [ कथं सेयमवस्था ते ?] द्विजः प्राह--न सर्वत्र भवादृशाः । तस्य चातुर्य अवस्था च दृष्ट्वा चमत्कृतो भूपौ तस्मै धनं दापयामास ।
लक्षं लक्षं पुनर्लक्षं, मत्ताश्च दश दंतिनः । दसं [श्री भोजराजेन] भोजेन तुष्टेन, जानुघ्नप्रभाषिणे ॥२॥
इति जानुदघ्नं श्रुतिदानसम्बन्धः ॥५०८॥ [509] अथ “यदेतत् चन्द्रान्तर" इति काव्यसम्बन्धः । एकदा रात्रौ भोजराजा चन्द्रं दृष्ट्वा पपाठ
यदेतत् चन्द्रान्तर्जलदलवलीलां प्रकुरुते ।
तदाचष्टे लोकः शशक इति नो मां प्रति तथा ॥१॥ तदा भूपगेह [अधोभूमौ क्वनीवाला स्थितश्चौरो विज्ञो भूपोक्तपदद्वयं । श्रुत्वा प्राहः
अहंत्विन्दुं मन्ये, त्वदरिविरहाक्रान्ततरुणी
कटाक्षोल्कापातव्रणशतकलंकाङ्किततनुम् ? ॥२॥ ___ अत्वैतद् राजा चमत्कृतस्तं स्तेनं धृत्वा चाभयदानं दत्त्वा पप्रच्छ । कोऽसि त्वं किं स्तैन्यं कर्तुमायातः ? ततः स स्तेनो जगौ-अस्मिन् पुरे कृष्णविप्रपुत्रोऽहं चंद्राः पित्रा सर्वाणि शास्त्राणि पाठितः परं गेहे तन्नास्ति यत् भुज्यते । ततः सर्व कुटुम्ब दुःखितं जातं । १. तद्रुम पातन पातकमेकं ।
20
25
"Aho Shrutgyanam"