________________
चतुर्थोऽधिकारः
[२७९ [ 505] अथ दाने आपदर्थे धनं रक्षेदित्यादि सम्बन्धः । भोजभूपः श्रियाश्चंचलत्वं वीक्ष्य यदा बहुदानं ददन्नभूत् सदा रोहितो मन्त्री दध्यो । राना कोशं धनरिक्तं स्तोक दिनैः करिष्यति अत उपायेन वार्यते । ततचित्रशाला भारपट्टे रहः पदं लिलेख
__"आपदर्थे धनं रक्षेत्"-प्रभाते भूपः पदं दृष्ट्वा मंत्रिलिखितं ज्ञात्वा तत्रैव लिलि[ले]ख- 5 "भाग्यभाजः क्व आपदादिः राज्ञा द्वितीयं पदं लिखितं ज्ञात्वौ तृतीयपदं तत्रैव पुनमन्त्रिणालिखितं-"देवं हि कुप्यति कापि"-राजा तत्पदमपसार्य लिलेख-"संचितोऽपि विनश्यति" ।
ततो राज्ञो मनो दाने संसक्तं ज्ञात्वा मंत्री क्षमयामास [उक्तं च त्वं भाग्यवानसि यत एवं विधं दाने मनस्तव । ततो राजाहि] रुष्टो दानं दत्ते । इति दाने आपदर्थे धनं रक्षेदित्योदिसम्बन्धः ॥५०॥
10 [506 ] अथ नष्टं नष्टं नष्टं नष्टमिति सम्बन्धः । एकदा भोजभूपसभायाः समीपस्थवटशाखायामुपविश्य शुकः प्राह-"नष्टं नष्टं नष्टं नष्टं" अस्य पदस्यार्थः सर्वेषां पण्डितानां पार्श्व भूपेन पृष्टः केनापि न झातो विलोकितोऽपि भृशं । तच विद्वत् कुटुंबेनार्थः प्रोक्तः इति । प्रथमं द्विजः प्राह “(१) कुभोजनात् दिनं नष्टं" । पत्नी प्राह "(२) भार्या नष्टा कुशीलिनी" । पुत्रः प्राह "(३) कुपुत्रेण कुलं नष्टं"। पुत्रपत्नी प्राह 15 "(४) तन्नष्टं यन्न दीयते ।" ततो राजा विद्वद् कुटुम्बाय लक्षं ददौ ।
इति नष्टं नष्टं नष्टं नष्टमितिसम्बन्धः ॥५०५॥
___ [507] अथ भोजकृतदानार्थसम्बन्धः । दानेन सर्व वशीभवति इति-ज्ञापनाय भोजनरेन्द्रोऽन्यदा आर्याचतुष्कं रचयामास। इदमंतरमपकृतये, प्रकृतिचला यावदस्ति संपदियं ।
20 विपदि नियतोदितायां, पुनरुपकर्तुं कुतोऽवसरः ॥१॥ निजकरनिकरसमृद्धथा धवलय भुवनानि पार्वणशशाङ्क । सुचिरं हंत न सहते हतविधिरिह सुस्थितं कमपि ॥२॥ अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशं । इदमपि सुलभमंभो भवति पुरा जलधराभ्युदये ॥३॥
35 १. नियतोदयायो ।
20
"Aho Shrutgyanam"