________________
२७० ]
प्रबन्धपश्चशती लावण्यामृतसारसारणिसमा सा भोजभूः स्नेहला,
सा लक्ष्मीः स नवोद्गमस्तरूणिमा सा द्वारिका तबलम् । ते गोविन्दशिवासमुद्रविजयप्रायाः प्रियाः प्रेरकाः, .
या जीवेषु कृपानिधियंधित नोद्वाहं स नेमिः श्रिये ॥१॥ मग्नः कुटुम्बजम्बाले येमहाकामजर्जरे ।
नोज्जयन्ते नतो नेमि-स्ते जीवन्तो मृताः स्मृताः ॥२॥ श्रुत्वैतद्राजा जगौ रैवतके नेमि नत्वैव भोक्तव्यं गुरुभिः प्रोक्तं-रैवतको दूरे, मृदवो भवादृशाः । राजाऽवग-मम प्रतिज्ञा मेमचूलेव ज्ञेया । ततः शीघ्रं रैवतकं प्रति सारपरिवार
श्वचाल राजा स्तम्भतीर्थोपान्ते समागात् । राजा खिन्नः प्राणसन्देशं प्राप परमभिप्रहं न मुञ्चते 10 ततः सूरिणा ध्याता कूष्मांडी देवी समागता। तदाने प्रोक्तं तथा कुरु यथा राजा पारणक
करोति । ततस्तया देव्या रैवतशिखरस्थमेकं बिम्बं नेमिनाथस्य तत्रानीतं प्रोक्तं चेदं श्रीनेमिबिम्ब तव साहसेन संमुखमागतं वन्दस्व पारणकं कुरु । ततः सूर्यादिभिरपि तथा प्रोक्तं । ततस्तद्विम्ब वन्दित्वा राजा पारणकं चकार । अद्यापि तद्विम्बं स्तम्भतीर्थे पूज्यमानमस्ति ततः । शत्रुञ्ज यगिरिनारयो देवान् वन्दित्वा स्वपुरमागात् ।
इति आमाभिग्रहसम्बन्धः ॥४६॥
[491] अथ श्रीगिरिनारतीर्थवालनसम्बन्धः । एकदा ससंघः श्रीआमः शत्रुञ्जये वृषभं नत्वा रैवतके गतः । तदा तत्तीर्थ दिगम्बरै रुद्धं, श्वेताम्बरसंघश्वटितुं न शक्नोति आमो यदा युद्धं कर्तुं लग्नः । तदा दिगम्बरभक्ता ११
राजानः समागतास्तेऽपि युद्धाय सना अभूवन् । ततो बप्पभट्टिनोक्तं-द्वयोरने युद्ध मनुष्य20 संहारो भवति । इदं तीर्थं यस्याम्बिका दत्ते तस्येव शेयं । ततोऽम्बिका द्वाभ्यो संघेशाभ्यामाराधिता सती व्याम्नि समेत्य प्राहेति गाथा---
"उन्जितसेलसिहरे, दिक्खानाणं निसिहिया जस्स । तं धम्मचक्कवटिं, अरिष्टनेमि नमसामि ॥१॥ इक्को वि नमुकारो, जिणवरवसहस्स वद्धमाणस्स ।
संसारसागराओ, तारेइ नरं र नारिं वा ॥२॥ ततः श्वेताम्बरैर्जितं दिगम्वरैहारितं स्त्रीणां मुक्त्यमावजल्पनात् ।
इति गिरिनारतीर्थवालनसम्बन्धः ॥४९१॥ १. सा भोजसूः २. प्रिया प्रेरकः ।
15
26
"Aho Shrutgyanam"