________________
द्वितीयोऽधिकारः
[ २५३ [ 466 ] अथ जिनोन्नतिचमत्कारे महेन्द्रोपाध्यायसम्बन्धः । पाटलीपुरपत्तने दाहडो भूपो विप्रभक्तो यतीनाकार्याचष्ट विप्रान्नमत । यतयः प्रोचुःएते तु गृहस्थाः वयं तु निर्ग्रन्थाः तेनास्माभिहस्था न वन्द्यन्ते । राज्ञोक्तं-यदि न नमस्यन्ते विप्राः तदा मद्देशे न स्थेयं । यदि स्थास्यते तदा शिरांसि च छेत्स्यन्ते । ततो जैनयतिभिः सप्त दिना याचिता अत्रान्तरे तत्र श्रीआर्यखपटसूरिशिष्यः उपाध्यायो महेन्द्रनामा भृगुपुरा- 5 दाययौ । स च यतिभिर्वन्दितः स्वं दुःखं प्रकाशितं यतिभिः, उपाध्यायेन संधीरिताः,
प्रातः श्रीउपाध्यायो दाइडराजस्य सभायां गतः । राज्ञोक्तं-प्रणमत ब्राह्मणानां नो चेद्भवतां शिर्षाणि छेत्स्यन्ते । उपाध्यायोऽवग-राजन् ! एते गृहस्थाः सपरिग्रहाः वयं निष्परिग्रहाः अत एवं न प्रोच्यते जिह्वा त्रुटति । तदा राज्ञोक्तं-भो सेवकाः ! अस्य निग्रहः कार्यते । तत उपाध्यायो हस्ते रक्तकणवीरकंबां लात्योच्चैः कृत्वा सभायां फेरिता प्रोक्तं च केषां नमस्कारः करिष्यते ? 10 ततो राजानं विना सर्वेषां विप्रादीनां मस्तकानि भूमौ पेतुः उपाध्यायेनोक्तं यदेतेषां कृतं तत्तवापि करोमि नवा ? ततो राजोत्थायोपाध्यायपादयोः पतित्वा भीतः प्राह-भगवन् ! प्रसन्नो भवतु परमेवमपराधं न करिष्यामि । ततो महेन्द्र उवाच
कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यहिणा,
का कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति । कः सन्नाति पन्नगेश्वरशिरोरत्नावतंसं श्रिये,
यः श्वेताम्बरशासनस्य कुरुते वन्यस्य निन्दामिमाम् ॥१॥ श्रुत्वैतद्राजाऽवग्-अहमतस्ते सेवकोऽस्मि मम चैतेषां जीवितं देहि । एते विप्रादयः सर्वे भवन्तं नमस्यन्ति । ततो महेन्द्रोपाध्यायेन धवलकणवीरकम्वा तेषामुपरि वाहिता, सर्वे समस्तका उस्थिताः ततो राझोक्ता विप्रादयः सर्वे [ सर्वान् ] यतीनमन्ति स्म राजा श्राद्धोऽभूत् । 20
इति जिनोन्नतिचमत्कारे महेन्द्रोपाध्यायसम्बन्धः ॥४६६॥
[ 487 ] अथ अतिशये श्रीपादलिप्तसूरिसंबंधः । गुरुदत्तविद्यया प्राप्तसूरिपदः पादलिप्तसूरिर्दशवर्षीयः शत्रुञ्जयोज्जयन्तार्बुदतीर्थसमेतशिखराष्टापदतीर्थेषु देवान्नत्वा जिमति स्म । ___ एकदा सूरिः पाटलिपुरे गतः । तत्र गरुडो (मरुंडो) नाम राजा षण्मासी यावशिरोर्त्या 25 पीडितः । ततः प्राणांस्त्यक्तुमिच्छति एकैमन्त्रतन्त्रयन्त्रैरनेकैः पुरुषैः कृतेऽप्युपचारे न निवर्तिता शिरोत्तिः । ततो मन्त्रिणः प्रेष्य सूरीनागतान् श्रुत्वाऽकारयामास [ ततः सूरीन् आह्वनाय राजामन्त्रिणं प्रेष्य, आगतांश्च तान् श्रत्वाप्रवेशं कारयामास ) राजा प्राह-भगवन् ! प्रसन्नीभूय दुःसाध्या शिरोर्ति निर्वस्यता, कीर्ति-धर्मों संचयेतां । ततः सूरिः कृपासागरः शिरोति भूपस्येत्यपाचकारा
16
30
"Aho Shrutgyanam"