________________
२५२ ]
प्रबन्धपञ्चशती
प्राग्ग्वैरात् जैनानुपद्रवति व्याधिवर्धनभयेन, धनहरणादिप्रकारैः । ततः श्राद्धैर्गुरवो विज्ञप्ताः, यक्षः श्रीसंघस्य पीडां करोति गुरवो यक्षायतने गताः । यक्षस्य कर्णयोरुपानही बबन्धुः । वक्षसि पादौ ददुः, लोका मिलिताः, राजाप्यागात्, राज्ञोक्तं-श्वेतवस्त्र! उत्तिष्ठ यक्षस्याशातना न क्रियते स्तुतिरेव क्रियते भस्मीकरिष्यति त्वां, गुरुवस्तु शरीरमाच्छाद्य सुप्ताः राजा यत्र यत्रोद्घाटयति तत्र स्फुलिङ्गा निस्सरन्ति । ततो घातान् दापयति । यदा तदान्तःपुरेषु लगन्ति पत्नीनां । ततोऽन्तःपुरे कोलाहलो जातः, 'मृता वयमिति' कोऽप्यदृश्यो मारयति । ततो राजा सूरीणां पदोः पतिवाऽवग-प्रसन्नो भव ममापराधः क्षम्यता, कृपां कुरु लोकेषु । ततोऽन्तःपुरेषु वेदना गता । गुरुभिः प्रोक्तं-यक्ष अत्रागच्छ । ततो यक्ष उत्थितः गुरुपादौ ननाम
पादसंवाहनां करोति च जगौ-मयि कीटकोपरि कः कटकारम्भः ? गुरुभिः प्रोक्तं-अद्यप्रभृति 10 जैनेषु द्वषो न कार्यः । यक्षः प्राह-यथा हनूमति रक्षति शाकिन्यः पात्राणि न पराभवन्ति
तथा त्वयि रक्षति जैन कः पराभवति । तव भृत्योऽहं मुश्च मां राजादयश्चमत्कृताः सूरिभक्ता जाताः सूरयः प्रासादानिर्गता यक्षोऽपि पाषाणमूर्तिः गुरुपृष्टौ चचाल, द्वे दृषत्कुण्डिके साधं चलिते सूक्ष्मपदाश्चेलुश्च नगरद्वारे सर्वे विसर्जिता यक्षादयः स्वस्थाने ययुः जिनधर्मप्रभावनाख्यात्यर्थ
कुण्डिके पुरद्वारे पतेते [स्थापिते] अधुनापि तथास्थिते स्तः । 15
इति श्रीजिनोन्नतिकारकश्रीआर्यखपटसम्बन्धः ॥४६४॥
[466 ] अथ श्रीजिनशासनोन्नती आर्यखपटाचार्यसम्बन्धः ।
एकदा गुडशखपुरात् श्रीसूरयो यावच्चेलुस्तावत्तत्र साधुद्वयं भृगुकच्छादागतं, गुरवो वन्दिताः । साधुद्वयं प्राह-भगवन् ! श्रीपूज्यैयुष्माभिभृगुपुराच्चलद्भिर्या कपरिका मुक्ताऽभूत् सा
चन्द्रक्षुल्लकेन छोटयित्वा वाचिता आकृष्टिर्लब्धिस्तेन शिक्षिता, स च तया विद्यया इभ्यानां 20 गृहारसारां रसवतीमानीय मुक्त, तथाकुर्वन् श्रीसंघेन गच्छेन वारितोऽपि न तस्थौ, रसने
न्द्रियलोलुपो जातः । श्रीसंघेन धनं हक्कितो बौद्धानां मिलितः । स च दुष्टः बौद्धानां पात्राणि मठात् खेन इभ्यानां श्राद्धानां गृहेषु प्रेषयति तानि भक्तभरितानि खे न आनयति । बौद्धान् भोजयामास सुखेन, तेन क्षुल्लः अतीय-मानितो, गौरवं वहन्ति बौद्धास्तस्मिन् । तस्य
शिक्षा यदि दीयते तदा वरं । ततो गुरवो भृगुपरं जग्मुः, प्रच्छन्नं स्थिताः यदा बौद्धानां 26 पात्राणि अन्नपूर्णानि आगच्छन्ति, शिलाकर्कराक्षेपात् आचार्यः बभञ्ज, तदा शीलिमण्डकादि[दयः]
राजमार्गादौ पतन्ति । तदा लोकाः कलकलं कुर्वन्ति बौद्धा बुमुक्षापीडिताः जगुः कोऽस्मदीयानि पात्राणि भनक्ति। ततः क्षुल्लको गुर्वागमनं ज्ञात्वा भीतो नष्टः सन्नन्यदा गुरुगुणरावर्जितः सः झुल्लकोऽभ्येत्य गुरून् वंदित्वा क्षमयामास, आचष्ट चाद्य प्रभृति मया गुरूणां वचो माननीयं
सूरयः ससंघाः बौद्धानां प्रासादमागमन् बुद्धस्य उपलमूर्तिः संमुखमुपस्थिता "जयजय महर्षि30 कुलशेखर" इत्यादि स्तुतिं चक्रे गुरोः । ततो बौद्धा अपि प्रबुद्धाः।
इति जिनशासनोमती आर्यखपटाचार्यसम्बन्धः ॥४६५।।
"Aho Shrutgyanam"