________________
२४२ ]
न्धपञ्चशती
बहुशोघृतेन शादिकाभ्यक्ताऽभूत्, परमधुना धर्महेतोः साधुभ्यो घृतं ददानाया मम शाटिका घृताभ्यक्ता, भवति मम भाग्यं भवे भवे कथमीदृशो योगः तव सहक्षो ज्येष्ठः धनी धर्मी दयावान् इत्यादिगुणवान् ईदृक्षी देवगुरुसामग्री मनुष्ययोगः, वासना च पापदानानि भूरिशो दत्तानि, धर्मदानानि साम्प्रतमेव लब्धानि सन्ति । एवं तयोक्ते वस्तुपालमन्त्री हृष्टस्त 5 प्रशंसयामास । ततः प्राह च - अद्यप्रभृति त्वया विचारो न कार्यः । यथारुचि त्वया दानं दातव्यम् । इति भक्तिदाने अनुपमादेवीसम्बन्धः ॥४४६॥
[447] अथ वस्तुपालमन्त्रि कुटुम्ब परलोकगतिसंबंधः ।
सम्वत् १२६८ ( वर्षे) अङ्केवालीयाप्रामे वस्तुपालमन्त्री स्वर्गं गतः । तत्र सरः, प्रभुप्रासादो, धर्मशाला, सन्त्रागाराश्च तेजःपालेन कारिता : १८ वर्ष व्यापारः, तेजःपालो मन्त्री १३०२ 10 चन्द्रोमाणाग्रामे स्वर्गं गतः । तत्रापि सरःप्रासादसत्रागाराश्च जयंतसिंहेन कारिताः । अनुपमादेवीअनशनं लात्वा स्वर्गं गता । सुललितादेव्यपि ।
15
इतश्चैकदा वर्द्धमानसूरय आचाम्लवर्द्धमानतपः कर्त्तु लग्नाः अभिग्रहं उलु । यदा तपःपूर्णं भविष्यति तदा मया शंखेश्वरपार्श्व वन्दित्वैव पारणकं कार्य, सम्पूर्णे तपसि देवं मनसि कृत्वा सूरयो दध्युर्मया वस्तुपालादीनां गतिः प्रभोः पार्श्वस्य पुरः प्रष्टव्या एवं ध्यात्वा मार्गे चेलुः । तत्र मार्गे एकस्य तरोस्तलेऽनशनं लात्वा प्रभोर्ध्यानात् मृतः [ स च ] शंखेश्वर पार्श्वनाथस्याधिटायकोsभूत्, ज्ञानेन मन्त्रिणो गतिं ज्ञातुं महाविदेहक्षेत्रे श्रीसीमन्धरजिनं नन्तुं गतः । प्रभुं नत्वा स पप्रच्छ भगवन् ! वस्तुपालमन्त्री महापुण्यकारकः क्व गतो मृत्या ? स्वाम्याहविदेहे पुष्कलावतीविजये पुण्डरिकिण्या पुर्याहु रुन्द्रो नृपोऽभूत् वस्तुपालजीवः, स च तृतीयभवे सेत्स्यति । अनुपमादेवीजीवस्तु अत्र विजये श्रेष्ठिसुता जाताऽस्ति, दीक्षां लात्वा सेत्स्यत्य20 स्मिन्नेव भवे । ततः स देवः श्रीशंखेश्वर पाश्र्वनाथमुखेऽवतीर्य स्वसम्बन्धकथनपूर्वं वस्तुपालानुपमादेव्योर्गतिं प्रकाशयामास लोकाग्रे । इति श्रीवस्तुपालानुपमादेवीगतिः । तेजःपालस्तु धरापुरे भूपपुत्रोभूत्तत्रैव ललितादेव्यपि सोमभूपपत्नी जाताऽस्ति एते सर्वे स्तोकैर्भवैर्मुक्तिं यास्यन्ति । इति वस्तुपालमन्त्रिकुटुम्ब परलोकगतिसंबंधः || ४४७||
[448] अथ द्वितीय आभडमन्त्रिसम्बन्धः ।
पत्तने श्रीमाल ज्ञातीय नागश्रेष्ठि सुन्दरीपत्नीभव- आभडो वणिग्बभूव । तस्मिन् दशवार्षिके मातापितरौ मृतौ श्रीर्नष्टा । आभडस्तु व्यवसायं चक्रे । वृद्धत्वे परिणीतः मणिकारकलां शिक्षितवान् दिनं प्रति पोष्टिकानुपार्जयति । तत्रैकं धर्मे व्ययति, द्वौ कुटुम्बकार्ये, द्वौ सच्चये । चतुर्दशेऽब्के पुत्रो जातः । परन्याः स्तन्यं न तेन पुत्रः सीदति स्म । ततः पुत्रस्य दुग्धाय छार्गी लातुमाभडो ग्रामबहिर्गतः । तत्र अवाहे छागयूथं पानीयं पातुमागात् । अवाहे छाग्यः सर्वाः पानीयं 30 पातुं लग्नाः यदा तदाऽऽभडो नीलं पयो ददर्श । ततम्बिन्तितं तेन कस्या अपि गले रत्नं
25
"Aho Shrutgyanam"