________________
द्वितीयोऽधिकारः
[ २४१ बहु द्रव्यं प्रतिदीयते । सप्तसहस्रं मनुष्याः अर्बुदगिरिआरामणादिप्रामेषु देवगृहार्थ मुक्ताः कर्म कत्तुम् ।
एकदा वस्तुपाल: सकुटुम्बस्तत्रागात् । तदा स्तोकं कर्नाटकं [कार्य] निष्पद्यमानं दृष्टा मन्त्री शोभनं प्रति प्राह-स्तोकं कर्नाटक चलति एवं कथं प्रासादो निष्परस्यते १ शोभनोऽवगअत्र गिरौ शीते पतति तेन प्रातर्घटनं न भवति । मध्याह्ने जेमितुं गम्यते रात्रौ तु विश्रामो मृह्यते । ततोऽनुपमा श्रुत्वैतत् दिवसघटकाः सूत्रधारका एके कृताः । रात्रिकर्म[स्थाप्यकारकाः 5 पृथक् स्थापयामास, मन्त्रिपार्थात् यतः-कालस्य विश्वासो न क्रियते
श्रियो वा स्वस्य वा नाशो, येनावश्यं विनश्यति । श्रीसम्बन्धे बुधः स्थैर्य-बुद्धिं बध्नाति तत्र किम् ? ॥१॥ वृद्धानाराधयन्तोऽपि, तर्पयन्तोऽपि पूर्वजान् ।
पश्यन्तोऽपि गतश्रीकान् , अहो मुह्यन्ति जन्तवः ॥२॥ तत्र स्तोकैरेव वर्षेः प्रासादो निष्पनः । तत्र बिम्बस्थापना कृता प्रतिष्ठा कारिता १२ कोदिः साधिका लग्ना “यत्र यत्र बुद्धि!त्पद्यते तत्र तत्र बुद्धिमनुपमादेवी दत्ते ।" यत:स्त्री सती यद्वति तत्प्रायस्तथा भवति भीलमाहाल्याव
गृहचिन्ताभरणहर, मतिवितरणमखिलपात्रसत्करणम् ।
किं किं न फलति कृतिना, गृहिणी गृहकन्पवनीव ? ॥३॥ सम्वत् १२८२ प्रासादप्रारम्भः । १२९२ प्रासादः सम्पूर्णोऽजनि । १२ कोहि ५३ क्षद्रव्याणि तत्र प्रासादे लूणिगवसत्याझे लग्नानि ।
इति अर्बुदलूणिगवसतिनिर्माणसम्बन्धः ॥४४५।।
[446 ] अथ भक्तिदाने अनुपमादेवीसंबंधः । अन्यदा वस्तुपालमन्त्रिणा अनुपमादेव्याः पुरः प्रोक्तं-त्वया साधवो विहार्याः साधिका 20 साधर्मिक्यो भोजयितव्याः । ततः प्रतिदिनमनुपमादेवी हृष्टा, यथेष्टं अन्नपानघृतादिसाधुभ्यो दवा साधिकान् साधर्मिकांश्च यथायोग्यं भोजयित्वा गुरोः पदोवन्दनकानि दत्त्वा देवं प्रपूज्य जिमति सदा एवं गच्छति समये । अन्यदा साधुभ्योऽन्नपानं दत्त्वा घृतकटाहकेन बहु घृतं ददानायास्तस्याः क्षौमाण्यभ्यक्तानि घृतेन । तदा महत् घृतकटाहक साधोहवा एकेन प्रतीहा. रेण भग्नं ततस्तया स निष्काशितः । अन्यस्तत्र स्थापितः । अत्रान्तरे स प्रतीहारो वस्तुपालमन्त्रो- 25 शस्य पुरो जगौ । अनुपमादेवी बहु घृतं साधुभ्यो दत्ते । यदा तदा साटिका घृतेनाभ्यस्ता भवति मलिनाम्बरा स्त्री तु न शोभते । ततो मन्त्रिणा साऽनुपमादेवी निषिद्धा । तदा अनुपमादेवी मन्त्रीशस्य पुरः प्राह अनेकेषु भवेषु तैलिकपत्नी अभूवं, कान्दुविकपत्नी च, तत्र
"Aho Shrutgyanam".