________________
द्वितीयोऽधिकार.
[ २३१ परण्ये नीता, तत्र तापसोटजे तया पुत्रयुग्मं जनितं, सिंहसिन्धुरी नाम्ना कृतौ क्रमात् प्रौढो जातो हम्तिव्याघ्रादिभिः समं क्रीडतः स्म । . अन्यदा वशीकृतश्वेतगजस्कन्धारूढी पल्लीपतिनाऽवरुद्धं सार्थवाहं विमोच्य पल्लीशं हत्वा तत्र राजानी जाती मातुःसेवा कुर्वाते स्म । अन्यदा वसिंहभूपस्तयोः पावें तं गजं श्रुत्वा दूतं प्रेध्य याचते स्म । तौ श्वेतं गजं नार्पयतः स्म । वचसिंहः संना तत्र गतः । तत्र 5 युद्ध मण्डितं ताभ्यां । क्रमाज्जीवसंहारं ज्ञात्वा स्वं पतिं च रुक्मिणीमाता पुत्रौ प्रति जगौ युवयोः एषः पिता । सर्व दोहदस्वरूपं कथिवती च, ततस्तु तो पितुः पाश्र्व गत्वा प्रणेमतुः । रुक्मिण्यपि तत्रागता । ज्ञापितः पुत्रसम्बन्धः पत्युः । ततो हृष्टस्तथो राज्यं दत्त्वा दीक्षा जग्राह तावेकछत्र राज्यं प्रपाल्य क्रमात्प्राप्तव्रतौ सिद्धौ । इति पुत्रभक्तौ वचसिंहभूपसंबंधा ॥४३०॥
10 [431] अथ नमस्कारगणनफले कदम्बद्विजसम्बन्धः । काकन्यां पुर्या सोमशर्मा विप्रः । तस्य पुत्रः कदम्बः अतिशौचवादी छायामानान्यस्पर्शः सचेलस्नानं करोति, पानीयपिशाच इति प्रसिद्धोऽभूत । वसाचलस्थगितवदननासिकः सर्वत्र हुं हुं कुर्वन् भ्रमति, यदा कस्यापि वस्त्राब्चलो लगति तदा तस्मिन्द्वेषं चकार । ततो गलत्कुष्ट
प्रभृति रोगग्रस्तः । ततस्तस्य कोऽपि स्पर्श न करोति । वैद्योऽपि नादिं न विलोकते 16 संक्रमणभयात् । यतः
ज्वरो भगन्दरः कुष्टं, क्षय चैव चतुर्थकः ।
एते संस्पर्शतो रोगा, संक्रमन्ति नराचरम् ॥१॥ ततो नष्टशौचपादोऽजनि शरीरे वेदना जाता । अन्यदा यतिपाइवें गतः । यतिना धर्मोपदेशो ददे । ततः पृष्टं तेन युष्माभिः स्नानं न क्रियते, कुतः शुद्धिर्भवति । यतिना प्रोक्तं- 20 शरीरमिदमशुचि विद्यते । तस्य स्नानेन किम् भवति । मनःशुद्धिरेव वीक्ष्यते । यतः
रसामुग्मांसमेदोस्थि-मज्जशुक्रान्तवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत्कुतः ॥२॥ नवः श्रोतः श्रवद्विस्त्र--रसनिास्यन्दपिच्छिले । देहेऽपि शौचसंकल्पो, महन्मोहविजम्भितम् ॥३॥
26 भुत्वैतड्यौ द्विजः-अहं मुधा शुचिवादं करोमि, अहो एते एव शुचयः ब्रह्मचारी सदाशुचिः यदि ममापि रोगोपशान्तिर्भवति तदाहमपीदृशो भवामि । साधुभिरुक-सर्वमौषधं मुक्त्वा एक नमस्कार गणय, षण्मासी यावदपरं ध्यान न काय । ततस्तस्य नमस्कारान्गणयन्कुष्टं गतं सुश्रावको जातः । सर्वधनं व्ययित्वा चारित्रं गृहीत्वा स्वर्ग गतः कदम्बः ।
इति नमस्कारगणनफले कदम्पद्विबसम्बंधः ॥४३१॥
2ी
"Aho Shrutgyanam"