________________
॥ अथ तृतीयोऽधिकारः ॥
[ 427 ] अथ पुष्पचूलासाध्वीसम्बन्धः ।
terer आचार्या एकस्मिन् पुरे तिष्ठन्ति स्म । नवकल्पविहारं कर्त्तुमशक्ताः धर्ममूर्तयः शालामध्ये नव स्थानानि विभज्य मासे गते द्वितीयस्थाने मासमुपविशन्ति स्म । ऋतुकाले अष्टमासैरष्टस्थानेषु स्थित्वा नवमस्थाने चातुर्मासी तिष्ठन्ति स्म । पुष्पला साध्वी 5 भिक्षां शुद्धामानीय तेभ्यो दत्ते ।
एकदा मेघे वर्षति उत्पन्नकेवलज्ञाना भिक्षां लारवा गुरुपार्श्वे समागमत्साध्वी । ततो गुरुभिः प्रोकं - पुण्यवति ! त्वया वर्षति मेघे आहार: किमानीतः सदोषत्वात् । साध्वी प्राहमया अचित्तप्रदेशे स्थित्वा अत्रागतं तेन दोषो न लग्नः । गुरुणोक्तं-- त्वमचित्तप्रदेशं कथं वेत्सि १ साऽवगू -- गुरुप्रसादात् । गुरुः प्राह-किं ज्ञानं प्रतिपात्यप्रतिपाति वा तवोत्पन्नं 10 ततस्तयोक्तमप्रतिपाति १ एवं ज्ञात्वा आचार्या जगुस्तव केवलज्ञानं जावं मम केवलज्ञानं कुत्र भविष्यति । केवली प्राह- गङ्गामुतरता भवतां केवलज्ञानं भविष्यति । ततस्ते सूरयो गङ्गायां गताः नावमारूढाः यस्मिन्पार्श्व गुरव उपविशन्ति तस्मिन्पार्श्वे नोर्निमज्जति तो नौबाइकेन आचार्या गङ्गामध्ये क्षिप्ताः । जलजीवानुकम्पाम्यानात्केवलज्ञानमुत्पन्नं आयुरपि प्राप्तमन्तं भन्तकृत्केवली जातः । ततोदेवैः केवलिमहः कृतः । ततो गङ्गातीर्थं जातं 16 पुष्पलाऽपि भव्यान्प्रबोध्य मुक्ति गता ।
इति श्री जङ्घाऽनिका पुत्रसूरि पुष्पचूला साध्वीसम्बन्धः || ४२७||
[428 ] अथ वैराग्ये मोहे च वसुदत्तसंबंधः ।
कानपुरे वसुदत्तः सार्थवाहो वसति स्म । ज्ञानी समागात्तत्र । सार्थपो वन्दित्वा गुरु पप्रच्छ शुको मम गृहेऽभूत् स च मार्जार्या मारितो भक्षितः, स शुको ममातीव 20 वल्लभोऽभूत तस्मिन्मृते ममातीवोच्चाटो विद्यते ।
ज्ञानी प्राह - तव वसुमती पत्नी बंभूव । वरुणः पुत्रश्च स च तव त्वत्पल्या अतीव बल्लभोऽभूत् । अन्यदा वरुणो देशान्तरे गत्वा धनमर्जयित्वा मार्गे पश्चादागच्छन् शूलरोगामृतस्तत्राटव्यांशुकोऽजनि तद्धनं ते कियञ्चटित कियगतं पुत्रमृतिस्मृते तब पत्नी, वरुणमाता मृता वसुमती, तब गृहे मार्जारी जाता ।
अन्यदा त्वं देशान्तरे गतस्तत्राटव्यां पुत्रजीवशुकं धृत्वा स्वगेहेऽनैषीः, पञ्जरेऽक्षिपत् ।
"Aho Shrutgyanam"
25