________________
प्रबन्धपञ्चश्नती... [403.] अथ अज्ञातस्थानदाने मत्कुणसम्बन्धः । नह्यविज्ञातशीलस्य, प्रदातव्यः प्रतिश्रयः ।
मत्कुषस्य च दोषेण, हता मन्द विसप्पिणी ॥१॥ कस्यचिद्राज्ञः सुप्तस्य शय्यायां यूका वसति । तस्याः प्राघूर्णकः मत्कुणः समायातः । । तस्य स्थानं तया दत्तं । मत्कुणस्तु राक्षश्चटकं दत्वा नष्टो राज्ञश्चलनेन यूका मृता । इति . ना० । अज्ञातस्थानदाने मत्कुणसम्बन्धः ॥४०३।।
[404 ] अथ वृद्धवाक्याकरणदोष हंसयूथसंबंधः । श्रव्यं वाक्यं हि वृद्धानां, ते वृद्धा ये बहुश्रुताः।
हंसयूथं बने बद्धं, वृद्धवुद्धथा विमोचितम् ॥१॥ 10 कस्मिंश्चिदने वटवृक्षस्तत्र हंसकुलं शतप्रमाणं वसति । अथास्य वटस्याधः कौशाम्बों
नाम बल्ली प्रादर्भ तां दृष्टा वृद्धहंसेनोक्तं--एषा अनर्थाय वधेमाना भाविनी, अत उन्मूल्यते, इत्युक्ते प्रमादान्नोन्मूलिता । कालेन या स्थिता, केनचिद्व्याधेन तेषु हंसेषु आहारार्थ गतेषु पाशाः क्षिप्ताः । पतितास्ते सर्वे पाशेषु । बृद्धेनोक्तं--मया पूर्वमुक्तमियमनर्थाय भाविनी ।
भवद्भिः प्रमादादुपेक्षिता वल्ली । इदानीमपि यदि मदीयं वचनं कुरुथ तदा बुद्धिं भवद्भ्यो 16 ददामि । तैरपि तथा प्रतिपन्नं । तेन वृद्धहं से नोक्तं-मृता इव यूयं सर्वे तिष्ठत । अथ यदा
व्याधः युष्मान्मृतानवज्ञाय भूमौ क्षिपति तदैककालं सर्वैरुत्पतितव्यं । कृते तथैव तैः ९९ हंसान् भूमौ चिक्षेप व्याधः, पुनश्चिन्तितं पश्चादयं वृद्धः क्षिप्यते इत्येवं मत्वा स भूमौ क्षिातः । तहसः शतथष्वकान् [शतबलान् ] मत्वोत्पतितं नवनवतिभिः । वृद्धः स्थितः । व्याधस्तं मारयितुं लग्नो यावत्तावत्तेन बुद्धिमतोत्त:- अहो व्याध ! मम विष्टया कुष्टं याति तेन कस्यापि भूपस्याप्पयित्वा [मम] स्वं दारिद्रयं स्फेटय । ततस्तेन राज्ञोऽपितः । राज्ञा रायै च याचितश्च । राज्योक्तं-पञ्जरे क्षिप्यतेऽयं । मन्त्रिभिरुक्तं वृद्धोऽयं मुत्कलो मुच्यता, कथं यास्यति अंहिशक्त्यभावात् । राज्ञा स्वकुष्टं तद्विष्टया स्फेटितं । मुत्कलो मुक्तो हंसो रयादड्डीय भित्तावुपविश्येमं श्लोकमाह
प्रथमे स्यामहं मृो, द्वितीये पाशवन्धकः । तृतीये नृपतिर्मूर्ख,-३चतुर्थे मन्त्रिमण्डलम् ॥१॥ इति वृद्धवाक्याकरणदोषे हंसयूथसम्बन्धः ॥४०४।। [ 405 ] अथ असंहितदोषे भारण्डपक्षिसम्बन्धः । एकोदराः पृथग्ग्रीवा, अन्योन्यफलकांक्षिणः । असंहता विनश्यन्ति, भारण्डा इन पक्षिणः ॥१॥
25
"Aho Shrutgyanam"