________________
0
३१४ ]
प्रबन्धपत्रशती [393] अथ असमाव्यावक्तव्ये भूपमन्त्रिसम्बन्धः । कस्मिंश्चित्पुरे भीमो भूपो राज्यं करोति । तस्य चन्द्रो मन्त्री । एकदा मन्त्री अरण्यमध्ये जलाशये शिला तरन्तीं दृष्ट्वा पश्चादागतो भूपस्याने प्रोक्तं-मया जले शिला तरन्ती रष्टा।
राजा जगौ-असंभाव्यं न वक्तव्यं, प्रत्यक्षं यदि दृश्यते । एवं प्रोच्य राज्ञा स जल्पन्निषिद्धों 6 दध्यौ मयोक्तं यद् भूपस्याने तन वरं ततोऽन्यदा राजाऽश्वापहृतो महाटव्यां गतः तत्र वानरवानरोणां गीतानि सुश्राव । ततः पश्चादागतः मन्त्रीपुरः पदद्वयं प्राह-~
यथा वानरगीतानां, तथा तरति सा शिला । यत् त्वया दृष्टा शिला जले सा सत्या । मया यतोऽघ वानरगीतं श्रुतं तदपि कोऽपि कथितं न श्रद्दधे कस्याप्यग्रे न प्रोच्यमानमस्ति ।
इत्यसंभाब्यावक्तव्ये भूपमन्त्रिसम्बन्धः ॥३६३॥
[394] अथ कुपत्नीहष्टान्तः । ___ एकस्मिन्याम श्रेष्ठिनः पत्नी अकथितकारिका विद्यते । इतस्तस्यापणे बहुकालादेकः प्राघूणकः समागतः । ततः आगतस्वागतादि मिथः कृतं । श्रेष्ठी गृहे गतः प्राह-परिन ! एका सुहृद् बहुकालादागतोऽस्ति, यदि त्वं प्राध्वरमार्गण त्वं कार्याणि प्रोक्तानि कुरुषे तदा स
आकायते जेमनाय । पत्नी प्राह-अग्रे तव कथितानि कारं कारं खिन्नास्मि तथापि कार्यसंख्या 16 यदि कथय तदा कुर्वे । ततः षष्टि कार्यसंख्या कृता । प्राधूर्णको जेमितुमानीतः । तया
आचमनादि प्रारभ्य कार्याणि गणितुं मण्डितानि तावद्यावत्तकपरिवेषणबेला समायाता । तक्रमेकशः परिबेषितं । श्रेष्ठिनोक्तं-पुनस्तक्रमानय । ततस्तया स तक्रचुरडकः पत्युमस्तके आहतो भग्नः । श्रेष्ठी कृष्णमुख उत्थाय हट्टे गतः । सुहृदा पृष्टं किं कृष्गमास्यं कृतं । ततः श्रेष्ठी गृहिणीस्वरूपं प्राह । ततः सुहृत्पाह
अनेकानि सहस्राणि, भग्नानि मम मस्तके ।
गुणवतीह ते भार्या, भाण्डमूल्यं न याचते ॥१॥ मम पत्नी तु भग्ने भाजने वखाचलं तदा मुश्चते यदा भाण्डमूल्यं दीयते, एवं प्रोच्य सोऽपि स्थिरीकृतः । इति कुपत्नीदृष्टान्तः ॥३९४॥
[395] अथ दुर्ग्राह्यस्त्रीविषये सम्बंधः । ___ कस्मिंचिद्ग्रामे कौटुम्बिको वसति स्म । तस्य पत्नी अतीव दुर्ग्राह्या । पत्युः पत्यै] कार्याणि आदिशति पत्युः पात्कारयति च ! यदा कान्तः मनागुत्सूरे करोति तदा सथा कटाक्षाणि मुञ्चते यथा स त्वरितं कार्य करोति । ततोऽन्यदा एकस्मिन् स्थाने घरटिकां शब्दं कुर्वाणां दृष्ट्वा प्राहाऽऽत्मस्थिरीकरणाय
रे रे ! यन्त्रक ! मा रोदीः, किं किं न भ्रमयत्यमः ॥' कटाक्षोत्पमात्रण, . कराकृष्टान्य.. का कथा ॥१॥
30
30
"Aho Shrutgyanam"