________________
२०६ ]
प्रबन्धपञ्चशती
नादि भक्षयन्ती भर्त्तुश्चवलादि कदन्नं दत्ते । श्रेष्ठी नाम्नैव भोगसारोऽभूत् । पत्नी तु भोगवती, जाता क्रमात्कुटिलाशया परनरेण सह भोगान मुझे स्म ।
एकदा शान्तिजिनस्याधिष्ठाता सुरो दध्यौ प्रभो - कथमधुना भोगो न भवति ? ततोsवधिना भोगसारदारिद्रोत्पत्तिः तत्पत्न्या कुशीलत्वस्थापनिकाकरणादि जज्ञौ । अयं जिनेन्द्रभक्त श्रेष्टी 5 चवलक्षेत्रं लुनानोऽभूत् । भार्या तु कुटिला पत्यभक्ता इति मया भोगसारस्य सान्निध्यं कार्य ततो भोगसार भागिनेयरूपं कृत्वा मामकगृहे गत्वा च माम्या जोत्कार कृतः पृष्टुं च क्व मे मातुलोऽस्ति ? माम्योक्तं-क्षेत्रे ते मातुलः क्षेत्रं खेटयन्नस्ति । ततः क्षेत्रे गत्वा मातुलस्यांही प्रणम्य स्थितो यदा तदा मामकोऽवम् -- किमर्थमागा भागिनेय ? भागिनेयो जगौ तव साहा - यकृते । ततो मातुलोऽवग् गृहे भुङ्क्ष्व गत्वा, पश्चात्वयाऽपि लाव्यं क्षेत्रं । भागिनेयोऽवग्10 आवाभ्यां सार्द्धमेव जिमिष्यते, संप्रति मम वेला नास्ति क्षेत्रमलूनं विनंक्ष्यति । भागिनेयो जगौ क्षेत्रं लूनमेवज्ञेयमिति प्रोच्य दैवतशक्त्यैकत्र स्थापितं सर्वम् । मातुलोsवग्-कथं चवलाः कथं गृहे लास्यन्ते । ततः सर्वं चवलक्षेत्रसत्कं चवलादि उत्पाट्य गृहं प्रति चचाल भागिनेयः ।
इतस्तया स्त्रिया स्वपतिभागिनेयावागच्छन्तौ ज्ञात्वा स्वपार्श्वस्थं जारं गोमाणिमध्ये छन्ने चक्रे । लप्पनश्चादि रसवती कोष्ठिकायां प्राक्षेपि तदा भागिनेयोऽभ्येत्य मामिकाया जोत्कारं 15 कृत्वाऽऽह - मामकः समायातः आगतस्वागतादि क्रियताम् । ततः सद्यो गोमाणिकाया ऊर्ध्वं चवलकभरं मुक्त्वा कणीकर्त्तु चवलान् कुट्टयितुं लग्नो भागिनेयः तदा जारो जर्जरीभूतः स्वं मृतप्रायं मेने तदा भोगवती स्वस्योपपतिं मृतप्रायं ज्ञात्वा प्राह- अधुना जिम्यतां । त्वं श्रान्तोऽभूः । ततो द्वावपि मितुमुपविष्टौ तदा चवलादि कदन्नं परिवेशयितुमारेभे तथा । ततो भागिनेयो जगौ - अहं कदनं न भोक्ष्ये । तयोक्तं-वर्यमन्नं कुतो दीयते । भागिनेयोऽवग्-कोष्टिकामध्यस्थां 20 लपनत्रियं परिवेषय । ततस्तया परिवेषितां लपनश्रियं मुक्त्वा द्वावपि पल्यङ्के सुप्तौ यदा तदा
छन्नं स जारः - परपुमान् बहिर्निष्कर्षितस्तया । स च गतो निजालये । सा तु तयोः पार्श्व स्थिता दध्यौ - अहो अस्य डाकिनत्वं विद्यते नो चेल्लपनश्रियं कोष्ठिकास्थां कथं जानाति ।
इतो भागिनेयो मामकपार्श्वे प्राह- कथं सामलस्य सूनोर्विवाहो न क्रियते १ मातुलो जगौ धनं विना कथं पुत्रस्योद्वाहः क्रियते ? धनेनैव मनोरथाः पूर्यन्ते । ततो भागिनेयोऽवम् - मामक ! 26 त्वमुत्तिष्ठ, अत्रस्थं धनं बहु गृहाण । ततो विवाहो विस्तरास्क्रियतां । तस्यां पश्यन्त्यां स्वं धनं श्रेष्ठी भूमेश्कर्ष । ततो धनयोगाद् विवाहो मेलितो, लग्नमपि गृहीतं, विवाहावसरे भोजनदिने तथा स्त्रियाsध्यायि, तमुपपति विना किं सर्वजनजेमनेन ? ततो स्वस्था अभिष्टस्य प्रच्छन्नं निमन्त्रणं कृतमिति उक्तं च त्वया स्त्रीवेषधारिणीस्त्रीमध्ये भूत्वा गन्तव्यं भोजनाय । यदि त्वमागास्तदा मम सुखं स्यात्ततो विवाहदिने भोजनावसरे स्त्रीवेषभृत् स उपपतिर्जे मितुमागात् । 30 ततः श्रीमध्ये जेमितुमुपविष्टः स भागिनेयो जगौ-मयाऽय परिवेषणं करिष्यते । मामकोऽवग त्वमेव कुरु । ततो भागिनेये परिवेषयति सति सा स्त्री विलोकयति यदा भागिनेयः परिवेषयन् तस्य स्त्रीरूपधारिणो भाजनं परिवेषयितुं याति तदा छन्नं वक्तित्वं गोमाणिमध्ये जर्जराङ्गोऽभूः । स उपपतिराचष्ट - नाहं, स एवं द्वित्रिर्वारे प्रोक्ते भागिनेयो जगौ - एषा स्त्री सर्वस्य पक्वन्नादेर्निषेधं करोति, अहो बालेनेव जिमसि तर्हि जेमनाय स्त्रीमध्ये कथमायासि । एवं प्रोचं प्रोचं यदा 35 तस्याः किमपि न परिवेषितं तदा भोगवत्या उच्चाटोऽभूत् । ततो मिषं कृत्वा मोदकानानीय
" Aho Shrutgyanam"