________________
द्वितीयोऽधिकारः
[ १९५ [354] अथ कर्मविषये दुःस्थसम्बन्धः । पगपुरे धीरभूपो गवाक्षस्थो राजी प्रति प्राह-पश्य, पत्नि ! मया प्रजा सुखिनी कृता, क्रियते, करिष्यते च । राझी जगौ--यदि त्वहत्तेन धनेन प्रजा सुखिनो स्यात् तदा एष दुःस्थो मस्तककृतेन्धनभारो नरः सुखी क्रियतां त्वया ।
राजा प्राह--पश्य पनि ! अमुमपि सुखिनं करोमि । राजी-प्राक्कृतं शुभं कर्मास्य । भविष्यति तदा तस्यालये श्रीः स्थास्यति, नो चेत्त्वया दत्ताऽपि यास्यति ।
ततो राजा कर्मपरीक्षार्थ वमनि यस्मिन् याति दुःस्थस्तस्मिन् सपादलक्षं हारं मुमोच । __ ततः स तत्रागतो यदा सप्पै वीक्ष्यान्येन मार्गेण गतः । द्वितीयदिने राजा मुक्तं हारं सिन्दरं पतितमने स गतः । ततो राजा तमाकार्य पप्रच्छ । त्वं कल्ये मार्ग मुक्त्वाऽन्येन मार्गेण कथं गतः ? सोऽवग--सर्पो दृष्टो मार्गे । अद्य न सिन्दरं दृष्टं मया । ततो 10 राजा जगौ--
मसिविण माथामोहि आखर जे आगइ लिख्या ।
अधिक न उ ठाथाई, चहुटा ते चाचिग भणइ ॥१॥ एवं प्रोच्य तस्य वर्य भोजनं दत्त्वा राजा विससर्ज । इति कर्मविषये दुःस्थसम्बन्धः ॥३५४॥
15 [355] अथ कौतुकजल्पने क्षुल्लसम्बन्धः । एकस्य पण्डितस्य बहुकालादेकः क्षल्लकः सम्पन्नः। स बहुभक्षकः [पण्डितस्तं] पण्डितं दृष्टा वर्णयति मम मल्लकोऽतीववर्योऽस्ति, तदाऽन्येन साधुना हास्यादुक्तं
घसि घोघर ढूंढणि ढलस खीच तेल नो काल । गुरुनइ चेलो सांपडिओ, चालतो दुकाल ॥१॥ इति कौतुकजम्पने क्षुल्लसम्बन्धः ॥३५५॥
[36] अथ कृत्तकर्णपुच्छशृगालसम्बन्धः । एकदा एकस्मिन् प्राममध्ये शृगालः समागात् भिक्षार्थ [भल्यार्थ] यदा तदा लोकानामने निर्गन्तुं न शशाक । ततः स मायया जीवितुं वान्छन् उत्कटके मृतप्रायो भूत्वा पतितः । तदा लोका मिलिता मृतोऽयं मृत्तोऽयमिति जगुः । तदा एको वैद्यस्तत्रागात् प्राह च-अस्य शृगालस्य 25 कर्णेन भक्षितेनातिसारो याति । अस्य पुच्छेन च शिरोऽतिर्याति । दन्तैज्वरो याति । ततो लोकैः कौँ छिन्नौ, ततः पुच्छं छिन्नं, ततो यदा दन्तादिच्छेदं कर्तुमुस्थिता लोकाः तदा स उत्थाय श्लोकमेकं जल्पन्नष्टः
20
"Aho Shrutgyanam"