________________
10
१९४ ]
प्रबन्धस्यसती वान् । राजा देवपूजावसरे सिद्धान्तपुस्तकानि पूजयामास । राजा श्रीगुरुकृतान् ग्रन्थान् लेखयितुं दधिग्रहणाभिग्रहं ललौ । ७०० लेखका लिखन्ति कागदेषु । ततोऽन्यदा गुरुन् पप्रच्छ राजा। बहुकालं पुस्तकानि कथं तिष्ठन्ति, न विनश्यन्ति च । गुरुः प्राह--श्रीताडपत्रैलिखितानि
पुस्तकानि बहकालं तिष्ठन्ति न विनश्यन्ति च । ततो राजा श्रीताडपत्रैः पस्तकानि लेखयितं B लग्नः । श्रीताडत्रुटिर्जाता । राजा वृध्यौ यान् ग्रन्थान् सममान् लेखयितुमहं न शक्तः । ततो
राज्ञा श्रीताडानयनविषयेऽभिग्रहो लले । यदा श्रीताडा आगमिष्यन्ति तदा भया भोक्तव्यं । उपवासत्रये जाते शासनदेव्या खरताडाः श्रीताडाः कृताः । प्रातरारामिकः श्रीताडान दृष्ट्वा राजानं वर्धयामास, प्राह च-तव साहसात्सर्व खरताडाः श्रीताडाः जाताः । ततो राजा गुरवोऽन्येऽपि मिथ्यात्विनोऽपि तद्दृष्ट्वा जिनधर्म प्रशशंसुः । ततो जिनशासनेऽतीवोन्नतिर्जाता । इति पुस्तकाराधने श्रीताडागमने श्रीकुमारपालसम्बन्धः ॥३५१॥
[352] अथ औचित्यदाने । सर्वजीवान् रक्षन्तं भूपं दृष्ट्वा एकः कवि प्राह-- पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं,
प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कत्तुं क्षमः श्रेणिका। 15 'अक्लेशेन कुमारपालनृपतिस्ता जीवरक्षा व्यधात्,
लब्ध्वा यस्य वचःसुधां स परमश्रीहेमचन्द्रो गुरुः ॥१॥ तस्मै लक्षदानम् । इति औचित्यदाने ।।३५२॥
[353] अथ श्रीकुमारपालभूपस्वर्णसिध्ध्यप्राप्तिस्वरूपम् । एकदा स्वं संवत्सरं प्रवर्त्तयितु कामो भूपः श्रीहेमसूरिपाचे स्वर्णसिद्धिं याचते स्म । 20 गुरुणोक्त-अस्मद्गुरवः श्रीदेवचन्द्रसूर यो जानन्ति । ततो गुरून बहुविज्ञप्त्या तत्र समहोत्स
वमाकारितवान् । श्रीहेमसूरि-कुमारपालभूपाभ्यां द्वादशावतवन्दनादिभिर्विनयः कृतः । गुरुभूपी गुरोः पादयोर्लगित्वा स्वर्णमिद्धिं याचेते । गुरुषु तामददानेषु श्रीहेमसूरिः प्राहभगवन् ! मम बाल्ये श्रीप्रभुपादरेकस्य भारवाहकस्य काष्ठभारात् वल्ली स्फीता मम पार्थाद्
माहिता, तेन बल्लोरसेनाभ्यक्तं ताम्रखण्डं युष्मदुक्तविधिना वह्नियोगात्स्वर्णोबभूव तस्य । 25 तस्या वल्लेश्च किं नामेत्यादिश्यतां । ततः कोपादुक्तं गुरुणा--
अग्रे तव मुद्रसप्रायदत्तविद्यया अजीर्ण जातं, किमिमा विद्यां याचसे १ तव कालविशेषान सा सेत्स्यति । अधुना ताहग भाग्यं भवतोन दृश्यते अतो न वक्तव्यं । ततो गुरूनामभिप्रायं ज्ञात्वा झमितं, ताभ्यां गुरूभूपाभ्याम् ।।
इति श्रीकुमारपालभूपस्वर्णसिध्यप्राप्तिस्वरूपम् ॥३५३॥
"Aho Shrutgyanam"