________________
द्वितीयोऽधिकारा
[ १२७
10
ऽधुना । तदा तया द्वर्योर्मध्ये एका सीवेषभृत् कृत्तः अपरो नृदेषधरश्च, छमं स्थापितौतौ च तदा बुभुक्षितः स भोक्तुं श्रेष्टयुपविष्टः, तदा च तया द्वयोनरयोरने शनैः प्रोक्तं-द्वाभ्यां युवाभ्यामधोमुखाभ्यां त्वरितं गन्तव्यं पश्चादहं समर्थयिध्ये । ताभ्यां तथा कृते श्रेष्ठी प्राह-को त्वरितं गतौ । साऽवग ईश्वरपार्वत्योः पूजां विना त्वमस्थ, तेन रुष्टौ तौ गतौ । अधुना ममाग्रे प्रोक्तमेताभ्यां तव पत्युर्मुखं न दर्शयिष्यावः । स श्रेष्ठी प्राह-पश्चाद्वालयातः परं पूजा करिष्ये तयोः। 5 तयोक्तम्-अद्य तु गतौ पुनर्यदा समेष्यतः तदा कथयिष्यते मया । एवं तया श्रेष्ठी प्रत्यायितः ।
इति कुशीलभार्यायां भेष्ठिपत्नीसम्बन्धः ॥२१०॥
[21] अथ श्रीदारिद्रसंवादसम्बन्धः । एकदा लक्ष्मीविशिष्टविभूषणाम्बरभूषिततनुरेकस्मिन्गृहे महेभ्यस्य विलसमाना सिंहासने रुपविष्टा, तदाऽनेके महेभ्यास्ता द्रष्टुं समायाताः ।
इतो गोकुले नारायणो भूरिगोपीपरिवारपरिवृतो वादित्रनिनदं श्रुत्वा पार्श्वस्थं गोपोजनं पप्रच्छ । किमधुनाऽत्र वाद्यन्ते वादित्राणि । गोपीभिः प्रोक्तं-स्वामिन् ! श्रीदश्रेष्टिगेहे लक्ष्मीः समागता तेन तत्रोत्सवो महान् जायमानोऽस्ति । ततः कृष्णो गोपीयुतस्तत्र गतः, लक्ष्मीः परिवारं वीक्ष्य मुमुदे । ___ इतस्तत्र गृहद्वारे दारिद्रथः पुमान् समागात् । दारिद्रः प्राह-रे रण्डे ! किमत्रैव त्वया मां 15 विना लोको विप्रतारयितुं मण्डितोऽस्ति । किं त्वं न जानीषे अहं तव माहात्म्यं क्षणादेव भिननि । लक्ष्मीजगौ-गच्छाऽतोऽचिराद , नो ,त्त्वां विगोयपयिष्यामि । अहमेव लोकं सुखिनं करोमि । मां विना लोका रका इव गृहे गृहे भ्रमन्ति । दारिद्रः प्राह-त्वं तु माहात्म्य मत्त एव प्राप । मत्तो भीता लोकास्त्वां सेवन्ते । अतो मत्कृत एव प्रसादस्त्वयि विलसति । ततो द्वावपि मिथो विवादं चक्रतुः । क्षणं विश्रामं न ललतुः । ततो लोकैरुक्तं-भो कृष्ण ! त्वमन- 20 योर्विवाद छिन्द्धि । कृष्णोऽवग-अहं युवा साम्प्रतमस्मि । - लक्ष्मीदारिद्रौ ! इन्द्रपार्श्वे गच्छतम् । तत्रेन्द्रो वादमनयोर्भेत्स्यति । ततो द्वावपि स्वर्ग गतौ, इन्द्रेण पृष्टौ द्वावपि स्वस्वरूपं गदतः स्मेति ।
श्रीरवग्-मया जगत्सुखवत् कृतम् । दारिद्रोऽवग---मत्तो भीता जना एनां सेवन्ते अतोऽस्याः प्रसादो मया दत्तः। 25
तत इन्द्रो जगौ-युवां व?, विवादो न विधीयते। ततः शक्रेण श्रीः पृष्टा त्वमद्य यावत् केषु गृहेषु कुत्र स्थाने स्थिता ? श्रीजंगौ-ममैतानि गृहाणि विद्यन्ते -
गुरवो यत्र पूज्यन्ते, वित्तं यत्र नयार्जितम् । अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् ।।१॥
30
"Aho Shrutgyanam