________________
७२ ]
प्रबन्धमती
पुनरपि बिम्बे चटापितं अस्काशेन तेनैव कर्मणा मलिनंपापमर्जित, जातिस्मरण-मावस्मरण दीक्षा गृहीता स्वर्गं गतः ॥ इत्युच्छिष्टपुष्पचटापने मातङ्गसुतकथा ॥ १०९ ॥ [ 110 ] अथ धर्मपरीक्षायां सोमवसुदृष्टान्तः ।
धर्मो विवेकिना विचार्य प्रायः सोमवसुवत् । तथाहि
कोशाम्ब्यां दुःस्थो जन्मना सोमवसुविप्रोऽभूत् । क्रमाद् धर्मार्थ्यजनि चिन्तयति-धममहं परी कुर्वे । धर्मो कुलजातो न स्यात्, ततो दर्शनानि विलोकमानः क्वापि मते परिव्राजं धर्मं पप्रच्छ । मद्गुरुणा धर्मत्रिपद्युक्तेति --
'मिट्ठे भुंजे, सुहं साअव्वं, लोअपिओ अप्पा कायब्वा ।'
अर्थमकथयित्वा एव गुरुः स्वर्गं प्राप । ततश्चाहं स्वबुद्धया मिष्टान्नं भुञ्जे । लोकेभ्यः कारयित्वा 10 मन्त्रौषधादिना लोकप्रियो भवामि । मृदुशय्यायां सुखं शये ।
सोमव सुश्चिन्तयति - मिष्टान्न भोजनमन्त्रतन्त्रज्योतिष्कादिप्रकाशनेन धर्मो न भवति किन्तु पापमेव विप्रोक्तं धर्मं श्रुत्वा पुनरपि अन्यत्र साधुपार्श्वे त्रिपद्यर्थं पृच्छति । सोऽवग्- साधुः एकान्तरे भोजने मिष्टान्नं स्वल्पनिद्रायां सुखशयनं, निरीहत्वे लोकप्रियत्वं । सोमवसुर्दव्यौ - मार्गानुयाय्यसौ पुनस्त्रिलोचनमन्त्रिपार्श्वे त्रिपद्यर्थं पप्रच्छ, सोऽपि प्राह- अहं जाने परमभाग्यात्कत्तु न पारये, 15 अकृताकारितानुमतिभोज्यं परमार्थतो मृष्टं सुखदानात् अग्रतः सुगतिदानात्, विधिना स्वल्पनिद्रायां सुखशयनं, महानिरीहत्वे लोकप्रियत्वं, विश्वस्यापि स वल्लभो भवति द्विजस्तत्वज्ञानात् हृष्टो गच्छन् पञ्चसमिति त्रिगुप्तियुतसाधुसमीपे क्रियमाणां त्रिपदीमपि श्रुत्वा प्रववाज । एवं विचार्य धर्मतत्वं प्राह्यम् । इति धर्मपरीक्षायां सोमवसुदृष्टान्तः ॥ ११० ॥
5
20
[111 ] अथ कुत्सितकर्मविषये सागरश्रेष्ठिकथा | चेइअदब्धं साहारणं च जा दुहइ समाहियमईओ । धम्मं च सो न याणइ, अहवा बद्धाउओ नरए ||१|| भक्s जो उवक्खेड़, जिणदव्वं तु सावओ । पुण्णहीणो भवे सो उ, लिप्पए पावकम्मेण || २ ||
अत्र सागरकथा-
साकेतपुरे सागरश्रेष्ठी परमार्हतः स च देवद्रव्यचिन्तां करोति । उक्तं च श्राद्धैः चैत्यकर्मकृतां यथायोग्यं कृतानुसाराद् धनं देयं स तु सूत्रधाराणां रोक्यद्रव्यं न दत्ते, किन्तु स्वगृहसम्बन्धि गुडघृतादिमहार्घाणीति प्रोक्त्वा (च्य) दत्ते । एवं कुर्वता तेन एका काकिनी भक्षिता, ततस्तेन पापमर्जितं बहु । तत्पापमनालोच्य मृतो जलमानुषोऽभूत् ततो मृतस्तृतीयश्वभ्रं ययौ । उक्तं च
30
25
देवद्रव्येण या वृद्धि गुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय, मृतोऽपि नरकं व्रजेत् ||३||
----g
"Aho Shrutgyanam"