________________
प्रथमोऽधिकारः
कास्ति ? तयोक्तं-गृहे नास्ति, राज्ञोक्तं-कूटं किं जल्प्यते, तव भर्त्ता विदेशादद्य रात्रावेव गृहे आगतोऽस्ति । तया चिन्तितम्-अहो दैवविलसितम् अहो दैवविलसितम् अद्यैव बहुवर्षेभ्यो भर्ता गृहे आगतः, न ज्ञायते कस्माद्धेतो राजा रुष्टः, प्रोवाच च
बह्वब्देभ्योऽधुना कान्तो, निःष्कलङ्को ममागमत् ।
नृपाकारणतोऽकस्मा-सङ्कटं पतितं पुनः ॥३५।। श्रुत्वैतद्राजा प्राह--
हे मालिके ! न ते भक्तर्दुष्टं कोऽपि करिष्यति ।
भविष्यति महापूजा, सत्यं वद सुशालिनि ! ॥३६॥ अहं राजा कारणेनागतोऽस्मि किश्चित्प्रष्टुं गूढम् । ततस्तया द्वारमुवाटितं, मेलितो भर्ता, धीरां दत्त्वैकतो नीत्वा प्रधानेषु शृण्वत्सु आत्मोपितुमर
णवृत्तान्तं राजा पप्रच्छ। मालिकोऽवग 10 कथि(थयि)तुं न शक्यते, कथिते सति मम मरणमेव शरणं । राज्ञोक्तं-भेतव्यं न, तव महापूजा-- राजसन्मानं भविष्यति । अन्यत्किमपि नानेयं, राजा त्वमेवाधुनास्मि । ततो मालिक आमूलचूलं नृपमारणवृत्तान्तं वैरोचनविहितमचोकथत् । कथितं च तत्र पालौ अस्थीनि सन्त्यद्यापि भूमध्ये ! ततो राज्ञा भयं नानेयं त्वयेत्युक्त्वा मालिको विसर्जितो गृहमध्ये गतः । तनो राज्ञा स्वाबासमभ्येत्य वैरोचनस्याकारणं कृतं, वैरोचनो यावदुत्थाय चलति तावत्संमुखा छिंकाऽभून् , 15 चिन्तितं किमपि विघ्नं भावि, यतः
उत्थितम्य पदो दातुं, चलतः संमुखी हि क्षुन् ।
मरणाय भवेन्नून-मथवाऽनथंदायिका ॥ पश्चाद्वलित्वा स्वस्थाने उपविश्य विलम्ब कुर्वाणं वैरोचनं राज्ञा मत्त्वा कटकं प्रेष्यते गृह वेष्टितं प्रोचुर्भूपभृत्या:-भो वैरोचन ! नन्दभूपमारक अह्नाय गृहाद्वहिनिस्सर पापस्य फलमधुनैव 20 द्रक्ष्यसि । श्रुत्वैतञ्चकितः स्वपूर्वचेष्टितं स्मृत्वा पुत्रानुत्थाय वैरोचनः प्राह राजा रुष्टः । हे बृहत्पुत्र ! मां मारय राजपावे गतं, त्वं खङ्गेन पश्चात्सर्वऽपि पुत्राः सुखिनो भविष्यन्ति । पुत्रः प्राहएवं कथं क्रियते ।
माता-पितासमं तीर्थ, नास्त्यशेषे भुवस्तले ।
तत्तीर्थ घ्नन्नहं यामि, घोरं नरकसंश्रयम् ।। अत्वा वैरोचनोऽवग्
राजा बन्धुरबन्धूनां, राजा चक्षुरक्षुषाम् ।
राजा पिता च माता च, राजा वंशस्य रक्षकः ।। एवं द्वितीयतृतीययोः पुत्रयोः कथितं पुनरेकोऽपि पुत्रस्त्रयाणां मध्ये पितरं मारयितुं नेहते, ततश्चतुर्थो लघुराकारितः प्रोक्तं वैरोचनेन सर्वप्रकारेण लघुरपि वृद्धः मामसिना राजदृष्टौ मारय। 30 तेनाङ्गीकृतं पितृवचः । ततः पित्रा शिक्षितः। हे पुत्र ! यदाहं राजदृष्टौ यामि तदा त्वया खङ्ग कर्षयित्वाऽहं मारयितव्यो विचारो न कार्यः। मारणादनु वक्तव्यं त्वया राज्ञो मारकस्यैवं
"Aho Shrutgyanam"