________________
प्रथमोऽधिकारः
[ ५३
एकदा जिनप्रासादे श्रीयुगादिप्रतिमां वीक्ष्य क्षण[] मूच्छित्वा जातिस्मरणं प्राप्य पश्चात् शुकीभवं ददर्श । ततो ज्ञातं राज्ञः स्वरूपं ततस्तया धर्मकर्म कुर्वत्याऽन्यदा पितुर प्रोक्तं तात ! त्वया स्वीयास्तुरङ्गमा राज्ञां वडवान भोगाय मोक्तव्याः । ततस्तथाकृते मन्त्रिणा बह्वयो राजasवा बहून् किशोरकान् प्रसूताः । तदानीं राज्ञः सर्वे किशोरकाः नृपपार्श्वात्तातगृहे तया नीताः ।
ततो राज्ञोक्तं --- मन्त्रिन् ! कथं मम किशोरास्त्वया गृहे गृहीताः । मन्त्रिणोक्तं-- मत्पुत्र्या मदालये आनीताः । ततो राज्ञोक्तं - मन्त्रिपुत्री पार्श्वे त्वया कथं मदीयाः किशोराः स्वपितुर्गृहे नीताः ? मन्त्रिपुत्र्योक्तं भवद्राज्ये एवं विधो न्यायो वर्त्तते । यः पुत्रः स पितुरेव ततो ये ये किशोरास्ते ते घोटकस्वामिनो भवन्ति तेनैते किशोरा मम तातस्य ।
राज्ञा ध्यातं - इयमतीव विदुषं [ष]मन्या वर्त्तते । तेन मया प्रथमं परिणीय तथा कर्त्तव्या यथा दुःखिनीभूता एतस्याः कृतं जल्पितं च एतस्या मस्तके पतति ।
तदा क्रमाद्राजा तं दिव्यवादित्रनिनादं श्रुत्वा तं विलोकितुकामोऽभूत् । इतः तिलोत्तमा स्वां सखीं विदुषीं राज्ञः पार्श्वे प्रेषयामास ।
5
ततो राज्ञा मन्त्रिणं सन्मान्य वस्त्रादिना महता प्रपश्वेन तिलोत्तमा परिणीता । कियदिनानन्तरं प्रोक्तं-रे विदुषं[धीं] मन्ये ! त्वया मद्गेहे पुत्रयुक्तथाऽऽगन्तव्यं, नान्यथा । ततः सा पितृगृहे गत्वा बुद्धिमती पितृपार्श्वाद्रव्यमादाय राजगृहं यावत्सुरङ्गां दापयामास छन्नं । ततस्तत्र तया देवविमानतुल्यं महदभूमिगृहं कारितं । तत्र बाउलकबदरीरोपिते । ततः वर्य पल्यङ्कादिरचना कारिता । पचषा सखीयुता तत्र देवीरूपतुल्या विशिष्टाभरणादिभूषितगात्रा ताम्बूलादि आस्वा - 15 दयन्ती तिलोत्तमा वादित्रादि वादयामास ।
10
राज्ञोक्तं त्वं का ? तयोक्तं - ज्ञानवती विद्याधरी पवनवेगविद्याधरपुत्री से बिकाऽस्मि । राजा दध्यौ-यस्या एवंविधा सेविकाऽस्ति सा कीदृशी भविष्यति । ततो राज्ञोक्तं यत्र तव 20 स्वामिनी वर्त्तते तत्र मां नेष्यसि । तदा तयोक्तं-यदि भवतो रोचते तदा तत्र त्वामेकाकिनं नेष्यामि । ततो राजा हृष्टस्तया तत्र रात्रौ नेत्रयोः पट्टकं बन्धयित्वा नीतः । चक्षुषः पट्टकोsuचक्रे, ततः तां दिव्यरूपां कन्यां वीक्ष्य दध्यौ स । किमियं विद्याधरी, किमियं देवाङ्गना, किमियं पातालकन्या च ? इयं यदि मम प्रिया भवति तदा कृतार्थोऽहं भवामि । तत्र नाटकादि निरीक्ष्य छन्नं राजा पश्चादागतः । एवं सा विद्याधरी राजानं तत्रानयति ।
"Aho Shrutgyanam"
25
एक दोक्तं-सा विद्याधरी भवत्स्वामिनी मां वृणुते न वा ? मम स्वामिनी विद्याधरं वरं समीहते । ततो राजा दध्यौ, एकदा तस्या भोगो मम भवति तदाहं कृतार्थो भवामि एवं चिन्तयामास । एकदा राजा यावत्तत्र गतस्तावत्सा सखी कुत्र गता कार्यार्थमपरा अपि तत्सेविका अन्यत्र गता । तदा तिलोत्तमयोक्तं - काऽस्ति या तु पादुके मदीये आनयति ? तदाराज्ञा पादुके मस्तके कृत्य तस्यार्पिते । तयोक्तं कस्त्वं ? तेनोक्तमद्य त्वां विलोकितुं त्वत्सेविकयाऽऽनीतः । 30 तयोक्तं वरं जातम् । एवं द्वितीयदिने तयोक्तं काऽस्ति या बदरीबाउलकपत्राणि आनयति मदीयते बन्धनार्थं, ततस्तेन तदपि कृतं । ततो राज्ञोक्तम् — एकशो मम त्वां भोक्तुमिच्छाऽस्ति । ततस्तयोक्तं यथातथा कमपि मत्कान्तं मुक्त्वाऽन्यं पुरुषं न समीहे, परं तव भक्त्या तुष्टास्मि, यदि तव रोचते तत्कुरु ।