SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४३९ व्याप्याच्चेवात् ॥५॥४॥७॥ व्याप्यात्कर्मणश्चकारात्कर्तुश्च इवार्थादुपमानाद्धातोः सम्बन्धे णम् वा क्यात् । सुवर्णनिधाय निहितः । उदनपाचं पकः । कर्तुरुपमाने काकनाशं नष्टः। यावतो विन्दजीवः ॥५॥४॥५५॥ कार्यविशिष्टाद्व्याप्याद्यावच्छब्दात्पराभ्यां विन्दजीवाभ्यामेककर्तृके वर्तमानाभ्यां धातोः सम्बन्धे णम्वा स्यात् । विन्दतेःशनिर्देशात् । लाभार्थस्य ग्रहणम् यावद्वेदं देवप्रतिमापूजयतः । सकलकमलाः स्फुरन्ति । यायल्लाभमित्यर्थः । यावद्वेदं देवगुरुधर्माः। वाधर्मादभीष्टसिद्धिश्च । वर्णाव्ययात्स्वरूपेकारः॥७॥२॥१५६॥ वर्णेभ्योऽव्ययेभ्यश्च स्वरूपे खार्थेकारः प्रत्यय: स्यात् । ॐकारः ह्रींकारः। श्रीकारा। रादेफः ॥७।२।१५७॥ __ रेफः । रकारः । प्रायोऽनुवृत्तेरन्यत्राऽपि । मतएव नमस्कारः श्रेयसे । श्रीसिद्ध हेमचन्द्राब्धितितीर्षोः प्रगुणीकृता । चन्द्रप्रभातरा सम्यक् सुखायैषा मया शुभा ॥१॥ इति श्रीसिद्धहेमचन्द्रविरचित्तायां बृहत्प्रक्रियायां चन्द्रप्रभाख्यायां कृदन्तप्रक्रिया सम्पूर्णा । श्रीशंखेश्वरपावभावदुदयध्यानावधानार्थवान बालोऽप्युज्यलकीर्तिकान्तिपटलैजैनैश्च शुक्लाम्बरः ॥ भानोः प्रेरणया प्रपन्नविनयो वृत्ति द्वितीयां व्यधात् श्रीमेघाद्विजयाह्ववाचकवरश्चन्द्रप्रभाख्यामिमाम् । इति श्रीमन्मेघविजयोपाध्यायविरचिता चंद्रप्रभा (हैमकौमुदी) समाप्ता ॥ अध्येतॄणामध्यापकानांच शुभं भूयात् ॥
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy