SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रबन्धकोशेत्यपराह्वये साङ्ख्या निरीश्वराः केचित् केचिदीश्वर देवताः । सर्वेषामपि तेषां स्यात्, तत्त्वानां पञ्चविंशतिः ॥१॥ ' इति ज्ञात्या भवदमितदेवाशिषः पठन्तः स्मः । यथारुचि हि श्रोतुः पुरः पठनीयं समयज्ञैः । वाक्पतिराह यद्यप्येवं तथापि मुमुक्षवो वयमासन्ननिधनं ज्ञात्वा इह परब्रह्म ध्यातुमायाताः स्मः । बप्पभट्टयो जगदुः-- किं नर्दि रुद्रादयो मुक्तिदातारो न भवन्तीति मनुध्वे ? | वाक्पतिः प्राह एवं सम्भाव्यते । बप्प - भट्टयो बभाषिरे - तर्हि यो मुक्तिदानक्षमस्तं शृणु । पठामि । स जिन एव । "मैदेन मानेन मनोभवेन, क्रोधेन लोमैन ससम्मदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ १ ॥ "जं दिट्ठी करुणातरंगियपुडा एयस्स सोमं मुहं १५ आयारो मायरो परियरो संतो पसन्ना तणू | तं मन्ने जर जम्ममच्हरणो देवाहिदेवो 'जिणो देवा अवराण दीसह जओ नेयं सरूवं जए || २ || इत्यादि बहु पेठे | वाकूपतिः प्राह- स जिनः कारते ? | सूरि :- स्वरूपतो मुक्त, मूर्तितस्तु जिनायतने । वाक्पतिर्भूतेप्रभो ! दर्शय तम् । प्रभुरपि आमनरेन्द्रकारिते प्रासादे तं निनाय । स्वयं प्रतिष्ठितवरं श्रीपार्श्वनाथमदद्दिशत् । शान्तं कान्तं निरञ्जन रूपं दृष्ट्वा प्रबुद्धो भाण - अयं निरञ्जनो देव आकारेणैव लक्ष्यते । २० तदा बप्पभट्टिसूरिभिर्देवगुरुधर्मतत्त्वान्युक्तानि । रञ्जितः सः । मिथ्यात्ववेषमुत्सृज्य जैन ऋषिः श्वेताम्बरोऽभूत् । जिनमबन्दिष्ट अपाठीच्च प्रबन्धः । From ૮૨ १० १ अनुष्टुप् । २ कलिकाल सर्वज्ञ श्री हेमचन्द्र सूविरविरचितायामयोगव्यवच्छेदिकाय पञ्चविंशतितमं पद्यमिदम् । ३ उपजातिः छायार्थिना प्रेक्ष्यतां पञ्चाशत्तमं पृष्ठम् । ५ ग ंघ- ‘इम ं । ६ शार्दूल० । ७ ख 'बभाषे ' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy