________________
अबन्धः ]
प्रबन्धकोशेत्यपराह्नये
लेज्जिज्जइ जेण जणे, मइलिज्जइ निअकुलकमो जेण । कंठडिए वि जीए, तं न कुलीणेहिं कायव्वं ॥ ४ ॥ *
-
1
प्रातरमूनि पद्यानि स्वयमामो ददर्श । वर्णान् कवित्वगतिं च उपलक्षयामास । अह्नो गुरूणां मयि कृपा ! | अहोतमां मम पापाभिमुखता इति ललज्जे । दध्यौ च साङ्कल्पिकमिदं जैनङ्गमीसङ्ग- ५ मपापं मयाssचरितम् । भारितोऽहं क्क यामि ? किं करोमि ? कथं गुरोर्मुखं दर्शयामि ? किं तपः समाचरामि ? किं तीर्थ सेवे ? । ऊर्ध्व मुखं गृहीत्वा गच्छामि ? । कूपे पतामि ? | शस्त्रेणात्मानं घातयामि ? । अथवा ज्ञातम् - सर्वजनसमक्षं पापमुद्गीर्य काष्ठानि भक्षयामि । एवं लवलायमानोऽनुचरानादिदेश- अमिं प्रगुणयत । प्रगुणितस्तै १० रग्निः । समागताः श्रीवप्पभट्टिसूरयः । मेलितं चातुर्वर्ण्यम् । उक्तं तदघम् । यावत् सहसा कृशानुं प्रवेक्ष्यति आमस्तावत् सूरिभिर्बाही धृत्वोक्तः राजन् ! शुद्धोऽसि । मा स्म खिद्यथाः । त्वया हि सङ्कल्पमात्रेण तत् पापं कृतं, न साक्षात् ; सङ्कल्पेनाग्निमपि प्रविष्टोऽसि । चिरं धर्मं कुरु ।
१५
७
मनसा मानसं कर्म, वचसा वाचिकं तथा । कायेन कायिकं कर्म निस्तरन्ति मनीषिणः ॥ १ ॥ इति वचनाद् विसृष्टोऽग्निः । जीवितो राजा । तुष्टो लोकः । प्रीतः सूरिः ।
समयान्तरे वाक्पतिराजो 'मथुरा' ययौ । तत्र श्रीपादस्त्रि- २० दण्डी जज्ञे सः । तल्लोकादवगम्य आमः सूरीन् बभाषे - भवद्भिरहमपि श्रावकः कृतः । दिव्या वाणी वः प्रसन्नैव । जानामि वः शक्तिपर मरेखा यदि वाक्पतिमप्याहृतदीक्षां ग्राहयथ । आचार्येन्द्रैः
१ छाया--- लज्ज्यते येन जने मलिनीक्रियते निजकुलक्रमो येन । कण्ठस्थितेऽपि जीवे तत् न कुलीनैः कर्तव्यम् ॥
२ आर्या ।
३ चाण्डाली० । ४ 'टळवळतो' इति भाषायाम् । ५ ग - 'सहसाऽभि' । ६ अभिम् ।
७ अनुष्टुप् । ८ ग- 'आचार्यैः' । चतुर्विंशति ११