________________
प्रबन्धः ]
प्रबन्ध को शेर पराहये
तत्र पुरे धर्मो नाम राजा । स च गुणज्ञः । तस्य सभायां वाक्पतिनामा कविराजोऽस्ति । तेन सूरीणामागमनं लोकादवगतम् । ज्ञापितश्च राज्ञा । राज्ञा प्रवेशमहः कारितः । पूर्मध्ये सौधोपान्ते गुरुस्तुङ्गगृहे स्थापितः । राजा नित्यं वन्दते । कवयो जिता राजताश्च । प्रभावना प्रैधते स्म । यशश्च कुन्दशुभ्रम् | 'राजा प्रोचे - अदृष्टे दर्शनोत्कण्ठा, दृष्टे विरह भीरुता । दृष्टेनाप्यदृष्टेन भवता नाप्यते सुखम् ॥
1
1
१ ॥ निर्बन्धे सूरिराह - आमश्चेत् स्वयमायास्यति तदा वयं यास्यामः, नान्यथा । इति प्रतिज्ञाय स्थापिताः पुण्यलाभं कुर्वन्ति ।
इतश्च यदा बप्पभट्टिः कृतविहारः प्रातः श्रीआमपार्श्व नामा- १ तस्तदा तेन सर्वक्षावलोकितो न लब्धः । जातो विवक्षः | 'यामः स्वस्ति वास्तु' इत्यादि काम्यानि दृष्टामि। अक्षराण्युपलक्षितानि । ध्रुवं स मां मुक्त्वा क्वापि गत एवेति निर्णीतम् ।
अन्यदा बहिर्गतेन राज्ञा महाभुजङ्गमो दृष्टः । तं मुखे धृत्वा वाससाऽऽच्छाच सौधं गतः । कविवृन्दाय समस्यामर्पितवान्
शस्त्रं शास्त्रं कृषिर्विद्या, अन्यो यो येन जीवति । इति । पूरिता सर्वैरपि । न तु नृपश्चमच्चकार हृदयाभिप्रायाकथनात् । तदा बप्पभट्टि बाढं स्मृतवान् । सा हृदयसंवादिनी गौस्तत्रैव । अथ स पटहमवदत् । तत्रेदमजूघुषत् — यो मम हृदूतां समस्यां पूरयति तस्मै 'हेमटङ्ककलक्षं ददामि। तदा 'गोपनिरी' यो द्यूतकारः २० कश्चिद् 'गौड' देशं गतः । स बप्पभट्टिसूरीणामग्रे तत् समस्यापदद्वयं कथितवान् । सूरिणा पश्चार्द्ध पेठे
।
सुगृहीतं च कर्तव्यं, कृष्णसर्पमुखं यथा ॥ १ ॥ इति । स हि भगवान् विकृतित्यागी सिद्ध सारस्वतो गगनगमनशक्त्या विविधतीर्थवन्दमशक्तियुक्तस्तस्य कियदेतत् ? । सबूत- २५
१५
•
१ ग - पुस्तके 'राजा कुर्वन्ति' एतदधिकम् । २ अनुष्टुप् । ३ ख - 'काव्यं दृष्टम् । ग- हेम ० ' । ५ अनुष्टुप् । ६ दुग्ध-घूत-दधि-तैल-गुरु- पक्वान्नेति षड् विकृतयः ।