________________
५४
चतुर्विंशतिपधन्धे । श्रीवापयष्टिमूरिप्राप्याणि । धन्या वयम् । तेन बालेनाप्यल्पदिनैलक्षण-तर्क-साहित्यादीनि भूयासि शास्त्राणि पर्यशीलिघत। ततो गुरवो 'डुबाउधी'प्राम जग्मुः । बालस्य पितरौ वन्दितुमागतौ । गुरुभिरालापितौ---पुत्रा भवन्ति भूयांसोऽपि; किं तैः संसारावकरकृमिभिः । अयं तु युवयोः पुनो व्रतमीहते । दीयतां नः । गृह्यतां धर्मः । नष्टं मृतं सहन्ते हि पितरो निजतनयम्। श्लाघ्योऽयं भवं निस्तितीर्घः । पितृभ्यामुक्तम्भगवन् ! अयमेक एव नः कुलतन्तुः कथं दातुं शक्यते । तावता सविधस्थेन सूरपालेन गदितम् -~~-अहं चारित्रं गृह्णाम्येव । यतःसा बुद्धिर्विलयं प्रयातु कुलिशं तत्र श्रुते पात्यतां
वल्गन्तः प्रविशन्तु ते हुनभुजि ज्वालाकराले गुणाः । यैः सर्वैः शरदिन्दुकुन्दविशदैः प्राप्तैरगि प्राप्यते
भूयोऽप्यत्र पुरन्धिरन्ध्रनरकमोडाधिवासव्यथा ॥ १ ॥ ततो ज्ञाततन्निश्चयाभ्यां तन्मातरापितृभ्यां जल्पितम्---- भगवन् !
गृहाण पात्रमेतत् । परं बप्पभैट्टिरिति नापास्य कर्तव्यम् । १५ गुरुमिभणितम् -- एवमस्तु । कोऽत्र दोषः ? । पुण्यवन्तौ युवां
ययोरयं लाभः सम्पन्नः । बप्प-भट्टी आपृच्छ्य सूरपालं गृहीत्वा सिद्धसेनाचार्या 'मोढेरक' गताः ।
शताष्टके वत्सराणां, गते विक्रमकालतः ।
सप्ताधिके राधशुक्ल-तृतीयादिवसे गुरौ ॥१॥ २० दीक्षा दत्ता । बप्पभट्टिरिति नाम विश्ववल्लभं जुधुषे । सङ्घप्रा
र्थनया तत्र चतुर्मासकं कृतम्। अन्यदा बहिर्भूमिं गत्तस्य बप्पभट्टेमहती दृष्टिमतनिष्ट घनः । कापि देवकुले स्थितः सः । तत्र देवकुळे महाबुधः को.पि पुमान् समागतः । तत्र देवकुले प्रशस्तिकाम्यानि रसाढ्यामि गम्भीरानि तेन बपभडिपार्भाद् न्याख्या
घ. डूंगा.' । २ शाल ०१ ३ घशात निश्चया' ।। स्व-दष्टिः'। प् । च-बोका।
५