________________
चतुर्विशतिप्रबन्धे
[६ मीवृद्धवादि-सिद्धसेन
सरिरूचे-नैतदर्थ्यहम् । पुनर्विक्रमो भणति—मन्महीसारभूतांश्वतुरो देशान् स्वरमादत्स्व । वाचाह-इदमपि नेच्छामि । तर्हि किमिच्छसीति । राजन् ! श्रयताम्-'ॐकारे' चतुर जैनप्रासादं शिवप्रासादादुच्चं कारय, स्वयं सपरिच्छदः प्रतिष्ठां च तत्र कारयेति। राज्ञा तत् तथैव कृतम् । प्रभावनया सधस्तुष्टः । एवं जैन धर्म घोतयन् वादी दक्षिणस्या 'पृथ्वीस्थान'पुरं विहरन् गतः । तत्रायुरन्तं ज्ञात्वाऽनशनं लात्वा स्वर्गलोकमध्यवात्सीत् । तत्रत्यसवेन 'चित्रकूटे' सिद्धसेनगच्छं तं वृत्तान्तं ज्ञापयितुं वाग्मी भट्ट एकः प्रस्थापितः। स तत्सूरिसभायां श्लोकपूर्द्ध पुनः पुनः पठति स्म
. स्फुरन्ति वादिखद्योताः, साम्प्रतं दक्षिणापथे । पुनः पुनः पाठे 'सिद्धसारस्वत या सिद्धसेनमगिन्योक्तम्
नूनमस्तं गतो वादी, सिद्धसेनो दिवाकरः ॥ १॥ पश्चाद् भट्टन प्रपञ्च्योक्तम् । ततः शोको विहितो विसृष्टश्च ।
इति वृद्धवादिसिद्धसेनयोः प्रबन्धः ॥ ६ ॥
PAARAAT
---
--
-
--कूटे गच्छन्तं सं सिद्धसेनवृत्तान्त'। २ अनुष्टुप् । ख-घ--'प्रबन्धी' ।