________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराये
पदार्थः । ततो वादी तां गुरुशिक्षां मूर्ध्नि धृत्वा राजानमापृच्छय वृद्धवादिना सह निविडचारित्रधरो विजहार । अपरापरगुरुभ्यः 'पूर्व' गतश्रुतानि लेभे । वृद्धवादी बां गतः ।
३७
एकदा सिद्धसेनः सङ्घ मेलाथित्वाऽऽह स्म - सकलानप्यागमानहं 'संस्कृतमयान् करोमि, यदि आदिशथ । ततः सो वदति स्म - किं संस्कृतं कर्तुं न जानन्ति श्रीमन्तस्तीर्थङ्करा गणधरा वा यदर्धमागधेनागमानकृपत । तदेवं जल्पतस्तव महत् प्रायश्चित्तमापन्नम् । किमेतत् तवाग्रे कथ्यते ? | स्वयमेव जानन्नसि । ततो विमृश्यामिदधेऽसौ सोऽवधारयतु, अहमाश्रितमौनो द्वादशवार्षिकं 'पाराचिकं ' नाम प्रायश्चित्तं गुप्तमुखवस्त्रिकारजोहरणादिलिङ्गः १० प्रकटितावधूतरूपश्चरिष्याम्युपयुक्तः । एवमुक्त्वा गच्छं मुक्त्वा ग्रामनगरादिषु पर्यटन् द्वादशवर्षे श्रीम' दुज्जयिन्यां महाकालप्रासादे 'शेफालिका' कुसुमरञ्जिताम्बर।लङ्कृतशरीरः समागत्यासाञ्चक्रे । ततो देवं कथं न नैमस्यसीति लोकैर्जल्प्यमानोऽपि नाजल्पत् । एवं च जनपरम्परया श्रुत्वा श्रीविक्रमादित्यदेवः १५ समागत्य जल्पयाचकार- क्षीरलिलियो ! भिक्षो ! किमिति त्वया देवो न वन्द्यते । ततस्तु राजानं प्रतीदमवादि वादिना --- मया नमस्कृते लिङ्गभेदो भवतामप्रतिये भविष्यति । राज्ञोचे-भवतु, क्रियतां नमस्कारः । तेनोक्तम् - श्रूयतां तर्हि । पद्मासनेन भूत्वा द्वात्रिंशद्वात्रिंशिकाभिर्देवं स्तोतुमुपचक्रमे । तथाहि-- २० "स्वयम्भुवं भूतसहस्रनेत्र - मनेकमेकाक्षर भावलिङ्गम् ।
अव्यक्तमव्याहत विश्वकोक-मनादिमध्यान्तमपुण्यपापम् ॥ १ ॥" इत्यादि श्री वीरद्वात्रिंशद्वात्रिंशिका कृता । परं तस्मात्
१ जैनानां द्वादशाङ्गन्त एको विभागः संस्कृतप्रायः । २ 'मेळवीने' इति भाषायाम् । ३ ग घ - 'संस्कृतान्' । ४ ख 'मागधिना' । ५ ग 'नमसीति । ६ क-ख-घ- 'ततस्त्विदमवादि ' । ७ उपजातिः । ८ म- प्रतौ ' श्रीवीर० ' इत्यारभ्य ' स्तवं चके एतत्पर्यन्तमधिकम् ।