________________
चतुर्विंशतिप्रवन्धे [६ श्रीवृद्धवादि-सिद्धसेन.
[६] ॥ अथ श्रीवृद्धवादि-सिद्धसेनयोः प्रबन्धः॥ 'विद्याधरेन्द्र'गच्छे श्रीपादलिप्तसूरिसन्तामे स्कन्दिलाचार्याः साधितजैनकार्याः पुस्फुरुः । ते यतनया विहरन्तो 'गौड'देशं ययुः । ५ तत्र 'कोशला'ख्यग्रामवासी मुकुन्दो नाम विप्रः । स तेषां सूरीणां मिलितः । इत्थं देशनामश्रौषीत्..
भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भय __ दास्ये स्वामिभयं गुणे खलभयं वंशे कुयोषिद्भयं । स्नेहे वैरभयं नयेऽनयभयं काये कृतान्ताद् भयं
सर्व नाम भयं भवे यदि परं वैराग्यमेवाभयम् ॥ १॥ श्रुत्वा भवोद्विग्नश्चारित्रं गृहीत्वा गुरुभिः समं 'भृगु'पुरं गतः । स मुकुन्दमुनिस्तारस्वरेणाधीते रात्रौ । साधूनां निद्राभङ्गो भवति । ततस्तान् दुर्मनायमानान् ज्ञात्वा गुरुभिः पठन्निषिद्धोऽसौ । यथा
वत्स ! नमस्कारान् गुणय । रात्रावुच्चैाषणे हिंस्रजीवजागरणादनर्थ१५ दण्डो मा भूदिति । ततो दिवा पठने श्रावकश्राविकादीनां कर्णज्वरो
भवति । केनाप्युक्तम्---किमयमियद्वयाः पठित्वा मुशलं पुष्पापयिष्यति ? । तच्छुत्वा मुकुन्दः खिन्नः सद्यो महाविद्यार्थी एकविंशत्योपवासैर्जिनालये ब्राह्मीमारराध । तुष्टाऽसौ प्रत्यक्षीभूय जगाद
सर्वविद्यासिद्धो भव । ततः कवीन्द्रीभूय स्वगुर्वन्तिकमागत्य सङ्घ२० समक्षमक्षामस्वरेण बभाण- यन्ममोपहासः केनापि कृतो यदयं
किं मुशलं पुष्पापयिष्यति, विलोकयत लोकाः ! मुशलं पुष्पापयामि । इत्युक्त्वा मुशलमानाय्य चतुष्पथे स्थित्वा तत् पुष्पापयामास, मन्त्रशक्तिमाहात्म्यात् । स्कन्धस्थितेन तेन भ्रमति पठति चक-ख-'तेन यत०' । २शार्दूल ! ३ क-कवीन्द्रो भूत्वा' ।