________________
२२
चतुर्विंशतिप्रबन्धे
[ ४ श्री आर्यखपटाचार्य
दृष्ट्वा भीतो राजा चाटूनि करोति स्म, पुनर्नैवमबिनयमाचरिष्यामि इति उवाच । तदा महेन्द्रेण पठितम्
कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यंघ्रिणा ? कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति । कः संनह्यति पन्नगेश्वर शिरोरत्नावतंसश्रिये ?
यः श्वेताम्बर शासनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥ १ ॥ विशेषतो भीतो नृपो दर्शन ( ? )स्य पादेवलगीत् । तदा महेन्द्रेण धवला करवीरकम्बा दिग्येऽपि वाहिता । पुनर्विप्राणां मस्तकाः स्वस्थानेषु ससज्जुः । प्रतिबोधितो राजा विप्रलोकश्च । एवं प्रभा१० बनाऽभूत् । भुवनोऽपि बौद्धान् परिहृत्य स्वगुरूणां मीलितः । तेन स्वगुरवः क्षामिताः । तैर्गुरुभिस्तस्य भुवनस्य बहुमानं दत्तम् । पश्चाद् भुवनो गुणवान्, विनयवान्, चारित्रवान् श्रुतवान्, जातः । तत आर्यखपटाः सूरिपदं भुवनाय दत्त्वाऽनशनेन
द्यामारुरुहुः |
१५ जीवितव्यं च मृत्युं च,
माराधयन्ति ये ।
५.
त एव पुरुषाः शेषः, पशुरेष जनः पुनः ॥ १ ॥
इति महाप्रभावक श्री आर्यखपटाचार्यप्रबन्धः ॥ ४ ॥
१ ग - 'महेन्द्रेोक्तम् | २ शार्दूल० । ३ क घ- प्रतयोः 'भुवनोऽपि ' इत आरभ्य 'जातः ' एतत्पर्यन्तं नास्ति । ४ क - 'खपुटः। ५ अनुष्टुप् ।