SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ प्रणमा प्रबन्धकोशेवपराहये निर्यामणां कुर्वन्ति । मीश्वरोऽपि समाधिना सर्व शृणोति, श्रद्दधाति च । अनशनं प्रतिपद्य यामे गते स्वयं भणति न कृतं सुकृतं किञ्चित्, सतां संस्मरणोचितम् । मनोरथैकसाराणा-'मेकमेव गतं वयः ॥१॥' यन्मयोपार्जितं पुण्यं, जिनशासनसेवया । जिनशासनसेवैव, तेन मेऽस्तु भवे भवे ॥२॥ या रागिणि विरागिण्यः, स्त्रियस्ताः कामयेत् कः ? । तामहं कामये मुत्तिं , या बिरागिणि रागिणी ॥२॥ शास्त्राभ्यासो जिनपतिनुतिः सङ्गतिः सर्वदाऽऽयैः सद्वृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे सम्पद्यन्तां मम भवभवे यावदाप्तोपवर्गः ॥४॥ इति भणन्नेवास्तमितो जैनशासनगगनमण्डनमृगाङ्कः श्रीवस्तुपाला । तदा निर्ग्रन्थैरपि तारपूत्कारमरोदि । का कथा सोदरादीनाम् ! । मन्त्रिणि दिवं गते श्रीवर्धमानसूरयो पैराग्यादा- १५ म्बिलवर्धमानतपः कर्तुं प्रारेभुः । मृत्वा शर्केश्वराधिष्ठायकतया जाताः । तैर्मन्त्रिणो गतिर्विलोकिता, परं न ज्ञाता । ततो 'महाविदेहे' गत्वा श्रीसीमधरो नत्वा पृष्टः । खाम्याह-अत्रैव 'विदेहे' 'पुष्कलावत्यां' 'पुण्डरीकिण्या' पुरि कुरुचन्द्रराजा सञ्जातः । स तृतीये भवे सेत्स्यति । अनुपमदेजीवस्तु अत्रैव श्रेष्ठिमुताऽ- २० वार्षिकी मया दीक्षिता पूर्वकोट्यायुः । प्रान्ते केवलं मोक्षश्च । सा एषा साध्वी व्यन्तरस्य दर्शिता । तदनु तेन व्यन्तरेणात्रागस्य तयोर्गतिः प्रकटिता । सत्र तेजःपालो विलपति आह्लादं कुमुदाकरस्य जलधेर्वृद्धिः सुधास्यन्दिभिः प्रद्योतैर्नितरां चकोरवनितानेत्राम्बुजप्रीणनम् । १ ग-'मते । २ घ-'मेवमेव' १३-५ अनुष्टुप् । ६ घ-'पदनतिः' । ७ मन्दाक्रान्ता । मन्त्रिणि' इमारभ्य 'प्रकटिता' प्रान्तः पाठः क-प्रतौ नास्ति ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy