________________
चतुर्विंशतिप्रबन्धे ] [ १४ श्रीवस्तुपाल
'इम्मपदे दत्तः । 'शत्रुञ्जय'- ''रैवतक' तलहट्टिका नगरयोः सुखासनात कृत्वा मुक्तानि अन्धज्वरितादीनां यात्रिकाणां तीर्थारोहणार्थम् । तदुत्पाटकनराणां तु प्रासपदे शालिक्षेत्राणि प्रतिष्ठितानि । तीर्थेषु सर्वेषु देवेभ्यो रत्नखचितानि हैमभूषणानि कारितानि । विदे५ शायातसूरिशुश्रूषार्थ सर्वदेशग्रामण्यो नियुक्ताः । कृतं लौकिकतीर्थकरणमपि स्वामिरञ्जनार्थम् न भक्त्या स्वयं तु सम्यग्दृष्टित्वात् । एवं तस्योपकाराः कियन्त्युच्यन्ते विवेकशिरोमणेः ? |
I
"
एकदा 'स्तम्भ' पुरं गतो मन्त्री 'धवलका 'त् । तत्र समुद्रतीरे यानपात्रात् तुरङ्गा उत्तरन्तः सन्ति । तदा सोमेश्वरः कवीन्द्र ● आसन्नवर्ती । मन्त्रिणा समस्या पृष्टा---
प्रादृट्काले पयोराशि –रासीद् गर्जितवर्जितः ।
४२
सोमेश्वरः पूरयति स्म -
अन्तःसुप्तजगन्नाथ-निद्राभङ्गभयादिव ॥ १ ॥ *
तुरङ्ममषेोडशकमुचितद्दानेऽत्र दत्तम् । पुनः कदाचिन्मन्त्रि१५ णोक्तम्- काकः किं वा क्रमेलकः ? । सोमेश्वरेण पूरितं पथम् - येनागच्छन्ममाख्यातो, येनानीतश्च मत्पतिः ।
प्रथमं सखि ! कः पूज्यः, काकः किं वा क्रमेलकः १ ॥२॥ अत्रापि षोडशसहस्त्रा द्रम्माणां दत्तिः ।
एवं लीला तस्य ।
एका वृद्धेभ्यः श्रुतमेवंविधम्, यथा
'प्रावाट ' वंशे श्रीविमलोदण्डनायकोऽभवत् । नेद - वाहिलयो - श्रताऽभवत् । स चिर' मर्बुदा 'धिपत्यमभुनक्, गुर्जरेश्वरप्रसत्तेः । तस्य विमलस्य विमलमतेर्वाञ्छाद्वयमभूत् पुत्रवान, प्रासादमाछा च । तत्सिद्धयै स्वगोत्रदेव्यां अम्बिकामुपवासत्रयेणारराध । I २५. पक्षीभूय सा प्राह-वत्स ! वाञ्छ ब्रूहि । विमलो जगौ - पुत्रेच्छा
१ - 'धर्म्मपदे' । २ क- घ- रैवतोपत्यकान गरयो । ३ ध 'सदुम्य (?) नरा ० ' । * था- 'तस्य स्वामि ० ' । ५ ग स्तम्भतीर्थपुरं । ६ ग - शशिः कस्माद् गर्जित०' | ७-८ अनुष्टुप् । ९ न- 'तत्सिद्धं वै बाप ० ' ।