SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ प्रवन्धकोशेत्यपराये 'स्तम्भपुर'मागता । नौवित्तगृहेऽतिथित्वेनास्थात् । सा समागता सचिवेन चरेभ्यो ज्ञाता | चराः प्रोक्ताः श्रीमन्त्रिणा-रे यदा इयं जलपथेन याति तदा मे ज्ञाप्या । गच्छन्ती ज्ञापिता तैः । मन्त्रिणा निजकोलिकान् प्रेष्य तस्याः सर्व कोटीम्बकस्थं वस्तु माहितम् । सुष्ठ रक्षापितं च क्वचित् । तदा नौवित्तैः पूत्कृतमुप- ५ मन्त्रि- देव ! जरत्येकाऽस्मयूथ्या हजयात्रायै गच्छन्ती त्वत्पद्रे तस्करै ण्टिता । मन्त्रिणा पृष्टम्- का सा जरती ? । तैरुक्तम्देव ! किं पृच्छसि । सा मोजदीनसुरत्राणमाता पूज्या । मन्त्रिणा भणितं मायया अरे वस्तु विलोकयत विलोकयत । दिनद्वयं विलम्न्यानीयार्पितं सर्वम् । जरती तु स्वगृहे आनिन्थे । विविधा भक्तिः १० क्रियते । पृष्टा च किं हजयात्रेच्छा वः । तयोक्तम्- ओमिति । तर्हि दिनकतिपयान् प्रतीक्षध्वम् । प्रतीक्षाञ्चके सा । तावताऽऽरासणाऽऽश्मीयं तोरणं घटापितम् । आनायितं च । मेलयित्वा विलोकितं च । पुनर्विघटितम् । रूतेन बद्धम् । सूत्रधाराः सह प्रगुणिताः । मन्त्रिणश्च मार्गश्चान्तरे त्रिविधोऽस्ति-एको जलमार्गः, १५ अपरः करभगम्यः, इतरस्तु अश्वलद्ध्यः । यत्र ये राजानोऽयोध्वा() यषोल्लध्यन्ते तथा सूत्रं कृतम् । राज्ञां उपदाय द्रव्याणि प्रगुणीकृतानि । एवं सामग्य सा प्रहिता तत्र रचितं तोरणं मसीति - द्वारे । तत्र दीपतैलादिपूजाचिन्ता तद्राजपार्श्वद् शाश्वती कारिता । दत्तं भूरि भूरि तत्र । उदद् भूरि यशः । व्यावृत्तां जरती । २० आनीता 'स्तम्भपुर'म् । प्रवेशमहः कारितः । स्वयं तदंहिक्षालनं चक्रे । एवं भक्त्या दिनदशकं स्थापिता खगृहे । तावता धवलकिशोरशतपश्चकं अन्यदपि दुकूलगन्धराजकर्पूरादि गृहीतम् । वृद्धा प्रोक्ता-मातश्चलसि ! । यद्यादिशसि तत्र मानं च दापयासि तदाऽ. हमप्यागच्छामि । तया भणितम्- तत्राहमेव प्रभुः । स्वैरमेहि । पूजा २५ ख-'काटीनकस्थं । ३ 'स्वयं सह भूत्वा ' इत्यधिको ग-पाठः। । घ'मशीति'. । ४ 'मसीद' इति भाषायाम् । ५ घ-'दाससि ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy