SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ર૯ ५ चतुर्विंशतिप्रबन्धे [ २४ श्रीवस्तुपाल दिव्यास्त्राणि दिव्यवस्त्राणि इत्यादि सबै जग्राह । घुघुलस्थाने आस्मीयं सेवकं न्यास्थत् । वलितो मन्त्री गतो 'धवलकक' म् । दर्शिता घूघूल श्री : श्री वीरधवलाय । तत्कज्जलगृहं तद्गले बद्धं शाटिका च वण्ठेः परिधापिता । तदा घूघूल: स्वजिह्वां दन्तैः खण्डयित्वा मृतः । जातं वर्द्धापनं 'धवलकके' । श्रीवीरधवलेन महत्यां सभायामाकार्य श्री तेजःपालः परिधापितः । प्रसादपदे' स्वर्ण भरि ददे । तदवसरे कवीश्वरसोमेश्वरे च दृक् सञ्चारिता श्रीवीरधवलेन । ततः सोमेश्वरदेवः प्राह--- मार्गे कर्दमर्दुस्तरे जलभृते गर्ताशतैराकुले खिन्ने शाकाटके भरेऽतिविषमे दूरं गते रोधसि । शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी मीदृक्षे गहने विहाय धवलं वोढुं भरं कः क्षमः ॥ १२ ॥ * विसृष्टा सभा | मिलितौ वस्तुपाल - तेजःपालावेकत्र । कृताः कथाचिरम् । तुष्टौ द्वौ मन्त्रयेते स्म -- धर्मे एव धनमिदं पुण्यलब्धं व्यय१५ नीयम् । ततः सविशेषं तथैव कुरुतः । ततः कविना केनाप्यु क्तम् १० पन्थानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिष स्मरन्तौ । तौ भ्रातरौ संसृतिमोहचौरे, सम्भूय धर्मेऽध्वनि सम्प्रवृत्तौ ॥१॥ अथ श्रीवस्तुपालः शुभे मुहूर्ते ' स्तम्भ' तीर्थं गतः । तत्र मि२० लितं चातुर्वर्ण्यम् । दानेन तोषितं सर्वम् । तत्र च सदीकनामा 'नौवित्तिको वसति । स च सर्ववेलाकूलेषु प्रसरमाणविभवो महाधनाढ्यः बद्धमूलः अधिकारिणं नन्तुं नायाति । प्रत्युत तत्पार्श्वेऽधिकारिणा गन्तव्यम् । एवं बहुः कालो गतः । पूर्वं मन्त्रन्द्रस्तं भट्टे १ घ - 'भूरि २ बहुसुवर्णं ददे' । २ घ - 'दुस्तरेऽतिविषमे' । ३ शाकटके[न] भरे च विषमे । शार्दूल० । ५ ख - 'मन्त्रयेत तस्माद् धर्मे' । ६ उपजातिः । ७ग'सैदनामा' ८ घ - 'वहाणवटी' इति भाषायाम् । ९ क-ख- 'स्तु' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy