SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ नि । चतुर्षिशतिप्रबन्धे [मोबस्तुपालष्ठकुरास्ते दण्डअन्ते । ततोऽचलदयम् । 'लब्धावादः पुमान् यत्र, तत्रासक्तिं न मुश्चति' । ___ अथ 'वर्धमान'पुर गोहिल घाट्यादिप्रभन् दण्ड पन्तौ प्रभु-मन्त्रिणा 'वामनस्थली' आगाताम् । तटे चतुरकान् दत्त्वा स्थितो वीरधवला। ५. 'वामनस्थल्यां' तदानीं यो प्रभुसहोदरौ तौ साङ्गण-चामुण्ड राजनामानौ उद्दामस्थामानौ राणश्रीवीरधवलस्य श्यालको । इति सौजन्यमर्यादां पालयस्तद्भगिनी निजजायां नाम्ना जयतलंदेषीं बहुपरिजनपरिवृतां मध्ये प्राहैषीत्। सा गत्वा सहोदरौ अभाषिष्ट भ्रातरौ ! भवतां भगिनीपतिरदण्डदण्डनः अभङ्गभञ्जनः 'गूर्जर'१० धरायां प्रतिग्राम प्रतिपुरं दण्डयन् भवतोर्दण्डनायात्रागतोऽस्ति । दीयतां धना-ऽश्वादि सारम् । एतद् भगिनीवचः श्रुत्वा मदोद्ध्मातौ तौ प्रोचतुः-मन्ये स्वसस्त्वं ततः समायाता सन्ध्यर्थम् ; यतो माऽस्मद्बान्धवयोः समरारूढयोरहं निर्धवाऽभूवम् । एतां मा स्म चिन्ता कृथाः । अमुं त्वत्पतिं हत्वाऽपि ते चारु गृहान्तरं करिष्यावः । न १५ च निषिद्धोऽसौ विधिः, राजपुत्रकुलेषु दृश्यमानत्वात् । ततो जयतल देन्याह-समानोदयौँ ! नाहं पतिवधभीता वः समीपमागाम् ; किन्तु निपितृगृहत्वीता । स हि नास्ति वो मध्ये यस्तं जगेदकवीरं 'ऊ'परवटा ख्यहयारूढं नाराचान् क्षिपन्तं कुन्तं वेल्लयन्त खड्गं खेलयन्तं वा द्रष्टुमीशिष्यते । कालः साक्षादरीणां सः अदृष्टपरशक्तिः सर्वोऽपि भवति बलवान् । इत्येवं वदन्त्येव ततो निर्गत्य सा सती पतिसविधं गत्वा तां वार्तामुच्चैरकथयत् । तन्निशम्य वीरधवलः शोधकरालाक्षो भृकुटीभङ्गभीषणभालानुकृतभीमः सन् सङ्ग्रामममण्डयत् । तौ द्वावपि वीराधिवीरौं ससैन्यौ आगतौ । सङ्घटितो रणः । पतितानि योधसहस्राणि पक्षद्वयेऽपि । रजसाऽऽच्छादितं गगनम् । १ 'साग' इति भाषायाम् । २ ख-घ- 'देवी० मध्ये प्रादेषीत् बहुपरिजनपरिकृत ताम् । ३ क-'सा' । ३ ग-'अपर०' । ४ घ-शस्यं ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy