________________
चतुर्विशतिप्रबन्धे
[२३ मीभाभा.
शाला ३ माषपिष्टकेटकचिताऽकारे। अमारिकारकश्रीकुमारपालदेवसमये महाव्यापस्तस्य ।
एकदा श्रीहेमसूरिभिः साधर्मिकवात्सल्यं महाफलमिति राजे व्याख्यातम् । राज्ञा आभड उक्त:-त्रुटितधनं श्रावककुलं दीनारसहनं दत्त्वोद्धार्यम् । वर्षान्ते लेख्यकं वयमवधाराप्याः । आभडेन वर्षान्ते राज्ञे लेख्यकं दर्शितम् । एका कोटिरायाता । राजा यावद् दापयति तावदाभडेन विज्ञप्तम्-- देव ! भूभुजां कोशो द्विधा-स्थावरो जङ्गमश्च । तत्र स्थावरो हेमादिभाण्डागारः,
जङ्गमो वणिग्जनः । वणिग्धनमपि स्वामिधनमेवेति । राजोवाच१० एवं मा वादीः । लोभपिशाचो मां छलयति । तावन्मात्रं तत्काल
भवानाय्य दापितम् । राजा तुष्टः । एवं व्रजति काले राजा कुमारपालदेवः श्रीहेमश्च वृद्धौ जात।। श्रीहेमसूरिंगच्छे विरोधः । रामचन्द्र-गुणचन्द्रादिवृन्दभेकतः, एकतो बालचन्द्रः । तस्य
च बालचन्द्रस्य राजभ्रातृजेन अजयपालेन सह मैत्री । एकदा १५ प्रस्ताव राज्ञो गुरूणामाभऽस्य च रात्रौ मन्त्रारम्भः । राजा
पृच्छति-- भगवन्नहमपुत्रः। कं स्वपदे रोपयामि ? । गुरवो अवन्ति-प्रतापमल्लं दौहित्रं राजानं कुरु धर्मस्थैर्याय । अजयपालात् तु त्वत्स्थापितधर्मक्षयो भावी । अत्रान्तरे आभडः प्राह--
भगवन् ! यादृशस्तादृशः स्वकीय एवोपकारी । पुनः श्रीहेमः२० अजयपालं राजानं मा कृथाः । एवं मन्त्रं कृत्वात्थितास्त्रयः । स
मन्त्रो बालचन्द्रेण श्रुतः । अजयपालाय च कथितः । 'हैम'गच्छीयरामचन्द्रादिषु द्वेषः । आभडे तु प्रीतिः । श्रीहेमसूरेः स्वर्गगमनम् । ततो दिनद्वात्रिंशता राजा कुमारपालोऽजयपालदत्तविषेण परलोकमगमत् । अजयपालो राज्ये निषण्णः । श्री१ राजोवाच' इत्यारभ्य दापित पर्यन्तः पाठोऽधिको -पुस्तकेऽस्ति । १ घ'भ्रातृ ग्रेन' । एकदा प्रस्तावे' इत्यधिको ग-पाठः। ४ ग-'आत्मीयो भष्यः' । ५ सर्वथैव' इत्यधिको ग-पाठः । ६ म-कथितः ।अतो हेम.' ।