________________
प्रबन्ध
१८५
प्रबन्धकोशेत्यपराह्वये
[२१]
॥ अथ मदनवर्मप्रबन्धः ॥
'चौलुक्य वंश्यो मूलराज-चामुण्डराज-बल्लभराज-दुर्लभराज-भीमान्वये कर्णदेवजन्मा मयणल्लदेविकुक्षिभूादशो रुद्र' इति विदितबिरुदः श्रीजयसिंहदेवनामाऽभून्महीपतिः । सोऽणहिलपत्तना'निर्गल्यामितैः सैन्य मलिब'देशराजधानी धारां' द्वादशभिवर्जग्राह । प्रतोलीत्रयं स्फोटयित्वा यशःपटहकुञ्जरेण लौहीमर्गलामन्वभञ्जत् । साऽद्यापि ' देवपत्तने ' सोमनाथाग्रे दृश्यते । यशःपटहो मृत्वा व्यन्तरोऽभूत् । जयसिंहो मध्ये परपुरं प्रविष्टो मालवेन्द्रं जीवग्राहमग्रहीत् । द्वादश वर्षाणि जयसिंहस्य खड्गो १० निष्प्रत्याकारोऽस्थात् , नरचर्मघटितमेव प्रत्याकारं करोमीति प्रतिज्ञावशात्; अत एव हत्यारूढं नरवर्माणं भूमौ पातयामास । वितस्तिमात्रं चाहिसत्कमुदतीतरत् । अत्रान्तरे प्रधानैर्विज्ञप्तम्राजन् ! राजाऽवध्य एव इति नीतिवचः । तस्मान्मोक्तुमर्होऽयम् । ततो मुक्तः सः । काष्ठपिञ्जरे क्षिप्तः । नरवर्मचाऽन्यचर्मभ्यां १५ सिद्धराजेन निजकृपाणे प्रत्याकारः कारितः । ततः कवीश्वरैविविध स्तूयते सः-----
एक धारा'पतिस्तेऽद्य, द्विधारणासिना जितः । । किं चित्रं यदसौ जेतुं, शतधारमपि क्षमः ॥१॥ क्षुण्णाः क्षोणिभृतामनेन कटका भग्नाऽस्य "धारा' ततः २०
कुण्: सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः । आरूढप्रबलप्रतापदहनः सम्प्राप्तधारश्चिरात् पीत्वा मालवयोषिदश्रुसलिलं हन्ता यमेधिष्यते ॥२॥
१ ग-'राजदुर्लभराज । २ ग-- 'नामा महीपतिरभूत्। ३ लोहमयीम् । ४ अनुष्टुपू । ५ ग-पुस्तके इदं पद्यं नास्ति। ६ शार्दूल. । पविकति १४