SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रवन्धे 8 श्रीनागाईगरैन्धनीमालपतः- त्वं नागार्जुनाय रसवती लबणबहुलां कुर्याः / यदा तां रसवती क्षारां कथयति तदाऽस्मभ्यं वदेः / साऽप्योमिति प्रतिशुश्राव / अथ सा तज्ज्ञानार्थ तदर्थ सलवणां रसवती साधयति / षण्मास्यामतिक्रान्तायां रसवती तेन क्षारेति दूषिता / रन्धन्या च राजपुत्रयोरने गदितम्- अघ क्षारत्वं जज्ञे नागार्जुनेन / ताभ्यामपि तस्य रससिद्धिनिश्चिक्ये / अथ तौ तस्य वधोपायं ध्यायतः पृच्छतश्च लोकं तज्ज्ञम् / पृच्छद्भ्यां ज्ञातम् , यथावासुकिना एवास्य दर्भाङ्कुरान्मृत्युः कथितोऽस्ति / नागार्जुनेन सिद्धस्य शुद्धस्य रसस्य कुतपौ द्वौ भृतौ 'ढङ्क पर्वतस्य गुहायां 10 क्षिप्तौ / पृष्ठचराभ्यां ताभ्यां ज्ञातौ / मुक्त्वा पलमानो नागार्जुनस्ताभ्यां सम्मुखस्थो दर्भाङ्कुरेण जन्ने / मृतः सद्यः / आलेख्ये चित्रपतिते, मृते च मधुसूदन! / क्षत्रिये त्रिषु विश्वास-श्चतुर्थो नोपलभ्यते // 1 // तौ कुतपो देवतया सगृहीतौ / राजपुत्रौ नरकपैङ्कगोचरतां 15 गतौ / देवतया क्रुद्धया हतौ / न रसलाभो, न च धर्मस्तयोः / तावपि राजपुत्रौ मरणकाले पश्चात्तापेन देग्धौ --- हा हा येन खटिकासिद्धिवशाद् दशाहमण्डपादिकीर्तनानि रैवतो' पत्यकायां कृतानि येन रसो लोकोपकाराय साधितः तस्य प्राणदोहेणावाभ्यां किं साधितम् ? / एकं तावत् कलापात्रद्रोहः, अपरं च मातुलद्रोहः / एवं दुःखार्ती मृतौ / रसस्तम्भनात् 'स्तम्भनं' नाम तीर्थ तत् पार्श्वदेवस्य / कालान्तरे तद् बिम्बं ततः स्थानात् 'स्तम्भन पुरे पूज्यतेऽधुना // // इति नागार्जुनप्रबन्धः // 18 // 1 'राधनारी' इति भाषायाम् / 2 घ- तदा वदेः / 3 अनुष्टुप / 'पहजगोचर.' / 5 ख-घ-'जग्धौ' / 6 समाप्तः' इलाधिका ख-च-पाठः / घ
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy