SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रबन्धकोशेत्यपराह्वये चोपकारैश्वर्य तदा निरुपममासीत् ततो विक्रमो धन्य एव / ततोऽधिकास्तु परःकोटयोऽभवन् / इत्याकर्ण्य विक्रमसेनो विवेकी अभूत् // // इति विक्रमादित्यप्रबन्धः // 17 // अथ विक्रमचरित्रम् / जैनतत्त्वबाह्य मुग्धजनचित्रमात्रफलं विक्रमादित्यप्रबन्धमेकं ब्रूमः / 'उज्जयिन्यां' राज्य शासति विक्रमादित्ये 'आसन्ने ग्रामे विप्रेणैकेन हलं खेडयता दिव्यं ज्योतिष्मद्रनमेकं भूमौ पतितं जगृहे / तन्मूल्यप्रश्नार्थ 'उज्जयिन्यां' रत्नपरीक्षिनेगमपार्श्वमागमत् / दर्शित तद् रत्नम् / विस्मिता ते ऊचुः—न वयमस्य रत्नस्य 1. मूल्यकरण क्षमाः, ईदृशस्य पूर्वमदृष्टत्वात् अलीकमूल्यकरणे तीव्रदोषाञ्च, केवलं देवः श्रीविक्रमादित्यो यदि वेत्ति मूल्यमस्य, स हि रेखाप्राप्तो रत्नमूल्यज्ञाने / विग्र उपविक्रमं जगाम / रत्नमदीदृशत् / विक्रमेण पृष्टम्-के लन्धमिदम् ? / विप्रेणोक्तम्- देव ! इलं खेटयता स्वक्षेत्रभूमौ लब्धम् / राज्ञा भणितम्-तहि दिन- 15 द्वयेन वक्ष्यामः / रत्नमस्मद्धस्त एवास्तु विन! मा भीः, न वयं परधनबद्धाभिलाषाः / धीरां दत्त्वा स्वसौधमध्य एव स्थापितः सः / __ अथ रात्रौ विक्रमेण विमृष्टा रत्नपरीक्षकाः संसारे। बलिमनु स च पाताले / तत्रापि गन्तव्यम् / कुतूहली बलसो न भवेत् / ततोऽ. ग्निवेतालमारुह्याशु पातालं गतः बलिभुवनद्वारेऽस्थात् / तत्र 20 नारायणो द्वास्थः प्रणतः / नारायणेन पृष्टम्-- किं कार्य तेऽत्रागमने? / विक्रमेणोक्तम्-उपबलि गतः विज्ञापय राजा कार्यगौरवादायातोऽस्ति / यद्यादेशः स्यात् तदा दर्शनं लभेत / गतः कृष्णः। उक्तं बलये-राजा समागतोऽस्ति द्वारे / बलिना निवेदितम्-- राजा चेद् युधिष्ठिरः ? / पृच्छेः कृष्ण ! / गतः कृष्णः पप्रच्छ- 25 1 इदं चरितं नास्ति ग-पुस्तके। 2 ख-'आसन्नग्रामे'। 3 'खेडता' इति भाषायाम्। चतुर्विशति. 22.
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy