SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रबन्धकोशेत्यपराये एवं च भूयस्यनेहसि गच्छति लोकैश्चिन्तितम्- अहो कयं भाव्यमनपलैरेव सर्ववर्णैः स्थयम् ? / सर्वाः कन्यास्तावद् राजैव विवोढा / योषिदभावे च कुतः सन्ततिरिति / एवं विषण्णेषु लोकेषु 'विवाहवाटिका'नाम्नि ग्रामे वास्तव्य एको द्विजः पीठजां देवीमाराध्य व्यजिज्ञपत्- भगवति ! कथं विवाहकर्माऽस्मदपत्यानां 5 भाषीति ! / देव्योक्तम्-भो वाडव! त्वद्भवनेऽहमात्मानं कन्यारूपं कृत्वाऽवतरिष्यामि / यदा मां राजा प्रार्थयते तदाऽहं तस्मै देया, शेषमहं करिष्ये / तथैव राजा तां रूपवतीं श्रुत्वा विप्रमयाचत / सोऽपि जगाद-- दत्ता मया, परं महाराज! स्वयमत्रागत्य मत्कन्योबोढव्या। प्रतिपन्नं राज्ञा / गणकदत्ते लग्ने क्रमाद् विवाहाय 10 प्रचलितः / प्राप्तश्च तं ग्राम श्वशुरकुलमवनिपतिः / देशाचारानुरोधाद् वधूवरयोरन्तराले जवनिका दत्ता / अञ्जलियुगन्धरीलाजै. भृतः / लग्नवेलायां 'तिरस्करिणीमपनीय यावदन्योन्यस्य शिरसि लाजान् वितरितुं प्रवृत्तौ तदनु किल हस्तमेलापो भविष्यतीति ताबद् राजा लां रौद्ररूपा राक्षसीमिवैक्षिष्ट / ते च लाजाः कठिन- 15 कर्करपाषाणरूपा राज्ञः शिरसि लांगतुं लग्नाः / क्षितिपतिरपि किमपि विकृतमिदमिति विभावयन् पलायितः / तावत् सा पृष्ठलग्नाऽश्मशकलानि वर्षन्ती प्राप्ता / ततो नरपति गहदे प्राविशन्निजजन्मभूमिम् / तत्रैव च निधनमानशे / अद्यापि सा पीठजा देवी प्रतोल्या बहिरास्ते निजप्रासादस्था / शूद्रकोऽपि क्रमेण 20 कालिकादेव्याऽजारूपं विकृत्य वापी प्रविष्टया करुणरसितेन विप्रलब्धस्तनिष्कासनार्थ प्राविशत् / पतितस्य तस्य कृपाणस्य पद्वारे तिर्यपतनाच्छिन्नाङ्गः पञ्चतामानञ्च / महालक्ष्म्या हि वरवितरणावसरेऽस्माद् देवेकौशेयकात् तव दिष्टान्तावाप्तिर्भवित्रीत्यादिष्टमासीत् / ततः शक्तिकुमारो राज्येऽभिषिक्तः / सात- 25 1 घ- भीलव्ये' / 2 जवनिकाम् / 3 घ-'कठिनपाषाणकर्कररूपा' / ख- रति किमपि' / 5 ग 'खगात् तब मरणं भावीया.'। 6 ख-घ-शातवाहनाय'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy