SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराहये प्रहतवान्, यथा सा त्रिखण्डमन्वभूत् / तत्रैकं शकलं योजनत्रयोपरि न्यपतत् , द्वैतीयकं च खण्डं नागह्रदे, तृतीयं तु प्रतोलीद्वारे चतुष्पथमध्ये निपतितमद्यापि तथैव वीक्ष्यमाणमास्ते जनैः। तबलविलसितचमत्कृतचेताः क्षोणिनेता शूद्रकं सुतरां सत्कृत्य पुररक्षकमकरोत् / शखान्तराणि प्रतिषिध्य दण्डधारस्तस्य दण्डमेवायुधमन्वज्ञासीत् / शूद्रको बहिश्चरान् वारान् पुरमध्ये प्रवेष्टुमपि न दत्तवान्, अनर्थनिवारणार्थम् / __ अन्यदा स्वसौधस्योपरितले शयानः सातवाहनक्षितिपतिमध्यरात्रे शरीरचिन्तार्थमुस्थितः / पुराद् बहिः परिसरे करुणं रुदितमाकर्ण्य तत्प्रवृत्तिमुपलब्धं कृपाणपाणिः परदुःखदुःखितहृदयतया 10 गृहान्निरंगमत् / अन्तराले शूद्रकेणावलोक्य सप्रश्रयं प्रणतः पृष्टश्च महानिशायां निर्गमनकारणम् / धरणापतिरवदद् यदयं बहिः पुरपरिसरे करुणकन्दितध्वनिः श्रवणाध्वनि पथिकभावमनुभवन्नस्ति तत्कारणप्रवृत्तिं ज्ञातुं ब्रजन्नस्मि / इति राज्ञोक्ते शूद्रको व्यजिज्ञपत्--देव ! प्रतीक्ष्यपादैः स्वसौधालङ्क- 15 रणाय पादोऽवधार्यताम् / अहमेव तत्प्रवृत्तिमानेष्यामि / इत्यभिधाय वसुधानायकं व्यावर्त्य स्वयं रुदितध्वन्यनुसारेण पुराद् बहिर्गन्तुं प्रवृत्तः / पुरस्ताद वजन् दत्तक! ' गोदावर्याः ' स्रोतसि कञ्चन रुदन्तमश्रौषीत् / ततः परिकरबन्धं विधाय शूद्रकस्तीर्खा यावत् सरितो मध्यं प्रयाति तावत् पयःपूरप्लाव्य- 20 मानं नरमेकं रुदन्तं वीक्ष्य भाषे--- भो कस्त्वम् ? किमर्थ च रोदिषि ? / इत्यभिहितः स नितरामरुदत् / इति निर्बन्धेन पुनः स्पष्टमाचष्ट--- भो साहसिकशिरोमणे ! मामितो निष्कास्य भूपतेः समीपं प्रापय येन तत्र स्ववृत्तमाचक्षे / इत्युक्तः शूद्रकस्तमुत्पाटयितुं यावदयतिष्ट तावन्नोत्पटति स्म सः / ततोऽधस्तात् 25 1 क- 'वक्ष्यमाण.' / 2 ख-'न चेत् शूद्रको' / 3 घ-- 'दुस्थित हदय.' 4 ग- 'रगात्' / 5 पूज्यपादैः / 6 ग-अहमपि प्रवृत्ति' /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy