SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ चतुर्षिशतिप्रबन्ध [११ मोहरिहर दृष्टस्तेन जयद्रथप्रमथनोन्निद्रः सुभद्रापतिः दृष्टो येन रणाङ्गणे सरभसश्चौलुक्यचूडामणिः ॥२॥ बटुः पृष्टः पण्डितेन-अत्र सदसि सोमेश्वरोऽस्ति न वा ? । बटुराह-स क्रोधान्नागतः । पण्डितो ज्ञात्वाऽस्थात् । जातः प्रवेशः । राणकेन दत्तं सौध-धन-कुप्य-वसन-परिजन-तुरगादि चमत्कारम् । अथ मन्त्रिगृहं गतोऽसौ । गुर्वी सभा । मन्न्यभ्युत्थानं चक्रे । ऊचे च मुधा मधु मुधा सीधु, मुधा सोऽपि सुधारसः । आस्वादितं मनोहारि, यदि हारिहरं वचः ॥ १ ॥ १० पण्डितस्तूचे-देव ! लघुभोजराज! विचारचतुर्मुख ! सरस्वती कण्ठाभरण! अवधारय वयं पण्डिताः, अस्माकं माता भारती, सा च त्रिभुवनचारिणी। एकदा भारत्या सह महेन्द्रस्य सभामगमाम । सा च 'सुधर्मा' नाम । इन्द्रः श्रीमान् । ३ कोट्यः सुराङ्गनाः । ८४ सहस्राणि १५ सामानिकाः । तथा द्वादशार्का वसवो ऽष्टौ, विश्वेदेवास्त्रयोदश । षट्त्रिंशत् तुषिताश्चैव, षष्टिराभास्वरा अपि ॥ १॥ षत्रिंशदधिके माहा-राजिकाश्च शते उभे । १ क- निद्रः' । १ शार्दूल० । ३ क- 'चमुत्कारम्'। ४ अनुष्टुप् । ५ "धाता मित्रोर्यमा रुद्रो, वरुणः सूर्य एव च ।। मगो विवस्वान् पूषा च, सविता दशमः स्मृतः॥ एकादशस्तथा त्वष्टा, विष्णुदश उच्यते ।" ६ “धरो ध्रुवश्च सोमन, अहश्चैवानिलोऽनलः । प्रत्यूपश्च प्रमासश्च, वसवोऽष्ठाविति स्मृताः" ॥ ७ "वसुः सत्यः ऋतुर्दक्षः, काल: कामो धृतिः कुरुः । पुरूरवा मारेयश्च, विश्वेदेवाः प्रकीर्तिताः॥" ८ घ--'वृाराभा.'। भनुष्टुप् । १०-महा.'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy