SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये 9 कीदृशोऽभूवम् । गुरुंराह- राजन् ! निरतिशयः कालोऽयम्, यतः श्रीवीर मोक्षगमनाद वर्षाणां चतुःषष्ट्या चरमकेवली जम्बूस्वामी सिद्धिं गतः । तेन समं मनः पर्यवज्ञानम्, परमावधिः, पुलाकलब्धि:, आहारकशरिम्, क्षपणश्रेणिः, उपशमश्रेणिः, जिनकल्पः, परिहारविशुद्धि-सूक्ष्मसम्पराय यथाख्यातचारित्राणि, ५ केवलज्ञानम् सिद्धिगमनं च इति द्वादशस्थानानि 'भरत' क्षेत्रे व्युच्छिन्नानि । सप्तत्यधिके वर्षशते गते स्थूलभद्रे स्वर्गस्थे चरमाणि चत्वारि पूर्वाणि समचतुरस्त्र संस्थानं वज्रऋषभनाराचसंहननं महाप्राणध्यानं व्युच्छिन्नम् । आर्यवज्रस्वामिनि दशमं पूर्वं आद्यसंहननचतुष्कं च व्यपगतम् । ततः परं शनैः शनैः सर्वाणि १० पूर्वाणि प्रलयं गतानि । 'सम्प्रति अल्पश्रुतं वर्तते तथापि देवतादेशात् किमपि ज्ञायते । राज्ञा विज्ञप्तम् - यथातथा पूर्वभवं ज्ञापयत माम् । गुरुभिः प्रतिपन्नम् । ततः 'सिद्ध' पुरे निजैराप्ततपोधनैः : सह 'सरस्वती' तीरं गत्वा विजने ध्याने निषण्णाः । दौ मुनी दिग्रक्षायां मुक्तौ । दिनत्रयान्ते विद्यादेव्य आजग्मुः । १५ प्रभूणामये ताभिरुक्तम् - यद् भवतां सखेन तुष्टाः स्मः, याच्यतां किञ्चित् । सूरिभिरभाणि - कुमारपालस्य प्राग्भवं वदत । ता ऊचु. - 'मेदपाट' परिसरे पर्वतश्रेण्यां 'परमार 'पल्ली शो जयताको राज्यमकरोदन्यायी । एकदा धनकनकसमृद्धा बैलीवर्दश्रेणी तेन गृहीता । बलीवर्दाधिपतिर्नष्टः । जयताकेन सबै लुण्ठितम् । २० 'बलीवर्दा 'विपतिस्तु 'मालव' देश गत्वा राज्ञा सह मिलित्वा सेनां गृहीत्वा तस्यां पल्ल्यां वेष्टमकृत । कीटमारिः कृता । जयताको नष्टः । तस्य भार्या (हस्ते) चटिता । तस्या उदरं विदार्य पुत्रं गर्भमुपले आस्फाल्य बाणिज्यारकोऽबधीत् । 'पल्ली' ग्रामादि प्रज्वालय पुन १०९ - १ 'सम्प्रति' इत्यधिका ग पाठः । २ एतन्नामार्थमेतासां प्रतिकृत्यर्थे च प्रेक्ष्यत श्रीयप्पभट्टित्तिचतुर्विंशतिकाया मदीयं संस्करणम् । 3 'मळद' इति भाषायाम् । ४ 'वणजारो' इति भाषायाम् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy