________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये
राजं सूरिशओ निःशोकमकार्षीत् । दुन्दुकः शनैः शनैः परमार्थतोऽभूत् | राजकार्याणि अकार्षीत् । त्रिव स समसेविष्ट ।
एवं वर्तमाने काले एकदा दुन्दुकश्चतुष्पथे गच्छन् कण्टिकां नाम गणिकामुदाररूपां चिद्रूपां युवजनमृगवागुरां मदनमायामयीमालोकिष्ट । तां शुद्धान्तश्री मकार्षीत् । तया दुन्दुकस्तथा वशीकृतो यथायदेव सा वदति तत् सत्यम्, यदेव सा करोति तदेव हितं मनुते । सा तु कार्मणकारिणी वाक्पटुः सर्व राज्यं ग्रसते हिमानी 'चित्रम्, भोजमातरं पद्मां नाम अन्या अपि राज्ञीरन्वयवतीर्विनयवतीर्लावण्यतस्तृणाय मनुते ।
-
एकदा कलाकेलिनीम ज्योतिषिको निशि विसृष्टे सेवक लोके १० दुन्दुकराजं विजनं दृष्ट्वाऽवादीत् - देव ! वयं भवत्सेवकत्वेन सुखिनः ख्पाताः श्रीशाश्व । ततो यथातथं ब्रूमः । अयं ते भोजनामा तनयो भाग्याधिकस्त्वां इत्वा तव राज्ये निवेक्ष्यते । यथार्ह स्वयं कुर्वीथाः । T रामा तदवचायै वज्राहत इव क्षणं मौनी तस्थौ । ज्योतिषिकं विससर्ज । सा वार्ता भोजजननीसहचर्या दास्यैकया विपुलस्तम्भान्त- १५ रितया श्रुता । भोजमात्रे चोक्ता । सा पुत्रमरणाद् बिभाय । राजाऽपि कण्टिकागृहमगात् । साऽपि राजानं सचिन्तमालोक्याछापीत्--- देव! अद्य कथं म्लानबदन: ? । राजाऽऽह स्म — किं क्रियते ! | विधिः कुपितः । पुत्रान्मे मृत्युर्ज्ञानिना दृष्टप्रत्ययशतेन कथितः । कण्टिका वदति स्म का चिन्ता ? | मारय पुत्रम् | २० सुतमपि निर्दलयन्ति राज्यलुब्धाः । सुप्तो न सुतः । सुतरूपेण शत्रुरेव सः । तद्वचनाद् वुन्दुकः सुतं जिघांसामास । यावता घातथि - ष्यति तावता भोजमात्रा पाडलीपुत्रे स्वभ्रातृणां शूराणां राज्यश्रीस्वयंवर मण्डपानां स्नेहलानां धर्मज्ञामाममे प्रच्छन्नलेखेन ज्ञापितम्, यथा - एवमेवं भवतां भागिनेयो विनंक्ष्यति । रुष्टो राजा । आगत्य २५
1
१ अशोकवृक्षम् । २ क- 'तथ तथ' ३ क - 'दृष्टिप्रत्यय० । ४ ख ग पाडली पुरे' ५ ख - ' सूराणा' । ६ ख घ- 'भाग्नेयः । ७ घ- 'राजा रुष्टः ।