________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये अन्यदा सौधोपरितलस्थेन आमेन कापि गृहे भिक्षार्थ प्रविष्टो मुनिदृष्टः । तत्र युवतिरेका कामार्ता गृहागतं मुनि परब्रह्मैकचित्तं रिरमयिषुः कपाटसम्पुटं ददौ । मुनिर्नेच्छति ताम् । तया मुनये पादतलप्रहारे दीयमाने नपुरं मुनिवरचरणे प्रविष्ट 'काकतालीय' न्यायेन 'अन्धवर्तकी'न्यायाच्च । राजा तद् दृष्ट्वा सूरये ५ समस्यां ददौ--
कंत्राडमासज्ज वरंगणाए अब्भत्थिओ जुव्वणगम्वियाए । सूरिः प्राह-- 'न मन्नियं तेण जिइंदिएण सनेउरो पब्वइअस्स पाओ ॥१॥
अन्यदिने प्रोषितभर्तृकाया गृहे भिक्षुः कश्चिद् भिक्षार्थी प्र- १० विष्टः । राज्ञा सौधाग्रस्थेन दृष्टः । तया भिक्षोः पारणायानमानीतम् । उपरि काकैक्षितम् । मुनिकस्य दृष्टिस्तस्या नाभौ "स्थिता । तस्यास्तु दृष्टिस्तन्मुखकमले । आमः सूरये समस्यामापिपत् । यथा___ 'भिकूखयरो पिच्छइ नाभिमंडलं सा वि तस्स मुहकमलं । १५ सूरिराह-----
'दुहं पि कवालं चड़यं पि काया विलुपति ॥२॥" इति आमः श्रुत्वा चमत्कृतः । अहो सर्वज्ञपुत्रका एते! ।
अन्यदा कोऽपि चित्रकृद् भूपरूपं लिखित्वा उपभूपं गतः । बप्पभट्टिना श्लाधिता तत्कला । नृपात् तेन टङ्ककलक्षं लेभे । २०
१ घ-'तम्। २ छाया-कपाटमासाथ वराङ्गनयाऽभ्यर्थितो यौवनगर्वितया । ३ ग-'अम्भुस्थिओं'।
४ छाया-न मतं तेन जितेन्द्रियेन सनपुरः प्रवजितस्य पादः ॥ ५ उपजातिः। ६ ग-'अन्यदा' । ७ ग-'पतिता'। ८-९ छाया–मिक्षाचरः पश्यति नाभिमण्डलं साऽपि तस्य मुखकमलम् ।
द्वयोरपि कपालं चाटकमपि काका विलुम्पयन्ति ।। १० आर्या ।