________________
सिद्धान्तलक्षणतस्वालोकः ।
त्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वतदृशानुयोगितावच्छेदकरूपवृत्तिप्रतियोगिताकभेदावच्छिन्नप्रतियोगिताकभेदवृत्तित्वान्यतरसम्बन्धेन एवंचान्यतरसम्बन्धेन हेतुतास्थले प्रत्येकधर्मावछिन्नसंसर्गतैव रूपवृत्तिर्भविष्यति ॥ ०॥ अथ द्रव्यत्वसाध्यकद्रव्यानुयोगिकसमबायविशिष्टसत्तात्वावच्छिन्ननिरूपितविषयितान्यतरसम्बन्धेन सत्ताहेतुकेशव्याप्तिः यत्पदेन विशिष्टसत्ताविषयकज्ञानस्यापि धारणसंभवात्तनिष्ठाधिकरणतानिरूपकतावच्छेदकतात्वावच्छिन्न पर्याप्त्यनुयोगि. तानच्छेदकत्वस्थ सत्तात्वगतैकत्वे सत्त्वेऽपि हेतुतावच्छेदकसंसघटकप्रत्येकसम्बन्धावच्छिन्नाधिकरणतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वविरहणोभयाभावसत्त्वात् । यतु य निष्ठानुयोगितानिरूपितहेतुतावच्छेदकसंसर्गप्रतियोगितावच्छेदक. तात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छदकत्वं विवक्षणीयं तथा च द्रव्यस्यैव पदार्थतति नाव्याप्तिस्तन्न धूमत्वस्य संसगीयप्रतियोगितायामप्यनवच्छेदकत्वादन्यथा तावन्मात्रविवक्षायामेव सामंजस्ये तदुभयाभावनिवेशस्यानौचित्यापत्तेः नच प्रमेयाबच्छिन्नप्रतियोगितामादाय इदादीनां धूमहेतुकस्थले हेत्वधिकरणत्वापत्तिरिति वाच्यं हेतुतानिरूपितावच्छेदकताविशिष्टान्यावच्छेदकत्वानिरूपितत्वस्य प्र. तियोगिताविशेषणत्वात् एवं वह्नयभावत्वसाध्यके संयोगप्रतियोगितान्यतरसम्बन्धेन वहिहेतुके व्यभिचारिण्यतिव्याप्तिस्तथापि दुर. खरा यत्पदेन पर्वतस्य धारणासंभवात्तनिष्ठाधिकरणतानवच्छेदकस्वस्य सामान्यतोधिकरणतावच्छेदकत्वस्य च द्वयोर्वह्नित्वे सत्त्वादिति चेदत्रोच्यते हेतुतावच्छदकतात्वावच्छिन्नप्रतियोगिताकपाप्त्यनुयोगितावच्छेदकरूपे स्वाशयाश्रयनिष्टा या हेतुतानिरूपितसंसगतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपनिरूपितप्रागुतान्यतरसम्बत्धावच्छिन्नवृत्तितावत्संसर्गतानिरूपितनिरूपक. ता तद्विशिष्टान्यत्वाम्वचक्षणीयम् वैशिष्टधंच स्वस्यविशिष्टनिरूपकता वच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितानवच्छेदकत्वस्वविशिष्टनिसदकतावच्छदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छदकत्वोभयसम्ब. न्धन प्रथमवैशिष्टयञ्च स्वनिरूपितसंसर्गतावच्छदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छदकरूपवृत्तिसंसर्गताकत्वस्वनिरूपिताधिकरण. तावद्यनिष्ठाधिकणणतानिरूपितत्वोभयसम्बन्धन द्वितीयवौशिष्टयश्च
"Aho Shrutgyanam"