________________
सिद्धान्तलक्षणतवालांकः ।
वच्छेदकताविशिष्टहेतुतावच्छेदकत्वस्य विवक्षया वा दोषासम्भ वात् वैशिष्ट्यं च स्वानवच्छेदकानवच्छिन्नत्वस्ववृत्तित्वोभयस. स्वन्धेनेति वस्तुतस्तु प्रमीयप्रकारतावच्छेदकत्वन्नविशेषणं प्रकृतहेतुप्रमात्वस्य प्रकृतहेत्वधिकरणत्वघटितत्वेन तस्य चोभयाभावघटितरूपत्वेऽयाप्तितादषस्थ्याद्धेतुतावच्छेदकावच्छिन्नाधिकरणतारू पस्य धूमहेतुकस्थलानुरोधेन त्यक्तत्वाश्च भ्रमभिन्नज्ञानीयत्वस्यापि स्वप्रकारताविशिष्टप्रकारत्वरूपम्य न निवेशसम्भवः वैशिष्ट्यस्य स्वतादात्म्यस्वावच्छेदकसम्बन्धावच्छिन्नस्वावच्छेदकावच्छिन्नप्रतियोगिताकाभाववभिष्ठविशष्यतानिरूपितप्रकारताभिन्नत्वोभयसम्वन्धेन वाच्यतया वृत्त्यनियामकसम्बन्धस्य प्रतियोगितानवच्छेदकत्वे वृत्त्यनियामकसम्बन्धेन हेतुतास्थले कथञ्चिदपि तत्सम्भवाभावात् स्वावच्छेदकसम्बन्धावच्छिन्नस्वाचच्छेद की भूतधर्मावच्छिअसम्बन्धित्वाभावघटितसम्बन्धोपादाने च धूमहेतावव्याप्तेः यत्तु प्रकारतावच्छेदकतायां हेतुतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वस्य निवेशनीयतया विषयितया वह्निहेतुके स्वरूपेण प्रमेयत्व विशिष्टवह्निविषयकज्ञानमादायाव्याप्तिरिति तन्न प्रकारतयां हेतुता
9.9
वच्छेदकताघटकसम्बन्धातिरिक्तसम्बन्धावच्छिन्नावच्छेदकत्वानिरूपितत्वस्यैव विशेषणत्वात् नचैवं महानसीयवह्रित्वावच्छिन्नप्रतियोगित्वसम्वन्धेन वहिहेतुके व्याभिचारिणि कागतिरिति वाच्यम् उभयाभावघटक सामान्यतोधिकरणतावच्छेदकत्वकोटी हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वस्य प्रकृतहेतुतावच्छेदकसंसर्गघटकतावच्छेदकधर्मावच्छिन्नसंसर्गताकत्वरूपस्य वाच्यत्वात्तथाच महानसी
यवह्नित्वावच्छिन्नप्रतियोगित्वघटकतावच्छेदकप्रतियोगितात्वावच्छि श्रवह्नित्वावच्छिन्नप्रतियोगितात्वावच्छिन्नसंसर्गताकाधिकरणतावच्छे
च
दकत्वस्य महानसीयवह्नद्यभावनिष्ठाधिकरण तानवच्छेदकत्वस्य द्वयोर्व्यतिरकाभावस्यैव वह्नित्वे सत्त्वेन हेत्वधिकरणाप्रसिद्धेर्ना - तिव्याप्तिः तद्धर्मावच्छिन्न घटकतावच्छेदकत्वं च तदवच्छिन्नविष यत्वाभिन्नविशेष्यतावच्छेदकत्वं तेन विषयित्वकालीन संयोगादिहेतुतावच्छेदकसम्बन्धस्थले न दोषः तादृशप्रतियोगित्वादीनां तव्यक्तिस्वादिना संसर्गत्वस्यानुभवातीततया तद्यक्तिसंसर्गकस्थलस्यासंभवांदेव नातिव्याप्तिरिति वयं ब्रूमः ॥ ● ॥ अथ हेतुतावच्छेदकस
"Aho Shrutgyanam"