________________
सिद्धान्तलक्षणतयालोकः । ७५ न ततोऽसिद्धिः तद्विशिष्टवैशिष्ट्यावगाहित्वं हि तद्गतरूपवृत्तिनिरूप. कताकाधिकरणत्वावगाहित्वमेव महानसीयवाह्निविषयकज्ञानम्बह्निमद्वह्निविवयकमानम्महानसीयवह्निमदित्यनयोविशिष्टवैशिष्ट्यावगाहि. नोरन्यथाऽप्रामाण्यानुपपत्तेः धूमवानितिप्रमाया न धूमत्वविशिष्टवैशिष्ट्यावगाहित्वं येन धूमत्वगतैकत्ववृत्यधिकरणत्वसिद्धिस्स्या. त्तत्रैव हि विशिष्टवैशिष्ट्यावगाहित्वं यत्र विशिष्टवैशिष्ट्यावगायुपलक्षितवैशिष्ट्यावगाहिनोः प्रमात्वाप्रमात्वयोर्विशेषोपलब्धिरिति वदन्ति भवन्ति ते विशिष्टवैशिष्ट्यावगाहिमर्यादानातिशेत इति नियमतात्पर्यानभिज्ञाः व्यक्तीभविष्यति हि तदर्थः पृथिवीसमवेतत्वस्योपलक्षणतया प्रतियोगितावच्छदकत्वोपपादनावसरे भवतु वा धूमत्वावच्छिन्नाधिकरणतावगाहित्वनोक्तप्रतीतभ्रंमत्वन्तावतापि तया धू. मत्वावच्छिन्नावच्छेदकताकप्रतियोगिताकाभावसिद्धौ किम्बाधकमा. कलयन्तीति न विद्मो वयं धूमासत्त्वनिवन्धनभ्रमत्वस्यैव हि तादृशाथबाधकतायां न्याय्यत्वात् तत्रैव हि विशिष्टवैशिष्ट्यावगाहित्वमि. त्यादि यदुक्तन्तेन जानीमहे न दृष्टन्तैोहितोपणीषाधिकरणन्तत्रहि विशिष्टवैशिष्ट्यावगाहित्वस्यौत्सर्गिकत्वं व्यवस्थापितमनुभूयतेऽपि च तदानीमरक्तस्य दण्डस्य सत्त्वेऽत्र रक्तदण्डोऽस्तीतिवादिनं प्रति त. हण्डालोचनवतामुपहासाधुपलब्धेरिति ॥०॥ अय महानसीयवह्नयभावत्वसाध्यके महानसीयवाहित्वावच्छिन्नप्रतियोगिताकत्वेन सम्ब. न्धेम धह्निहेतुके विरुद्धेऽतिव्याप्तिः पहित्वगतैकत्वे हेतुतावच्छेदकस. म्वन्धावच्छिन्नस्वावच्छिन्नानुयोगिताकपाप्तिकावच्छेदकताकमहानसीयवहित्वावच्छिन्ननिरूपकताताकाधिकरणतावन्महानसीयवह्नयभा. वनिष्ठाधिकरणत्वघटितोभयाभावसत्त्वेन महानसीयवह्नयभावस्यैव हेत्वधिकरणत्वादतःप्रमीयतुतावच्छेदकसम्बन्धाबछिन्नप्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वं हेतुता वच्छेदकगतरूपे विवक्षणीयं तथाच लाघवेनोभयाभावमनिवेश्य हेतुता वच्छेदकगतरूपवृत्तिहेतुतावच्छेदकसम्बन्धावच्छिन्नप्रकारतानिरू. पितप्रमीयविशेष्यतावत्वमेव हेत्वधिकरणपदार्थो वाच्यस्तावतैव सर्व. दोषवारणसंभवात् , नचोपलक्षणीभूतस्य निरूपकतानवच्छेदकत्वेऽपि प्रकारतावच्छेदकत्वस्य स्वीकृततयोपलक्षणतया गुणकमोन्यत्वावगाहिगुणकमान्यत्वविशिष्टलत्तवावान्गुणइतिप्रमीयविशेष्यताबस्वस्य
"Aho Shrutgyanam"