________________
सिद्धान्तलक्षणतत्त्वालोकः ।
यदुपादेयं
निष्ठाधिकरणतानिरूपितान रूपकतावदन्यत्वाधिकरणतानिरूपकतावश्वोभयाभाववस्वमस्ति स एव हेत्वधिकरणपदार्थत्वेन विवक्षि तः निरूपकतावता च स्ववृत्तित्वसम्बन्धेन स्ववृत्तित्वश्च सर्वे स्वनिरूपितावच्छेदकताविशिष्टान्यावच्छेदकत्वानिरूपितत्वसम्बन्धेन वैशिष्ट्यश्च स्वसामानाधिकरण्यस्वानवच्छेद कानवच्छिन्नत्वस्वाव च्छेदकसम्बम्धावच्छिनत्वस्ववृत्तित्वेषु यदुपादेयं तत्सम्बन्धेन तथा च न कोपि दोषः सम्बन्धव्यावृत्तिस्तु प्रायशो विषयित्वसम्वन्धेन हेतुतास्थलेऽव्याप्तिवारणरूपानुसन्धेयेति एवञ्चकत्वादेः पर्याप्त्यनभ्युपगमेऽपि न क्षतिशंवा वह्नित्यमात्रगत द्वित्वाभावेऽपि चोकदोष इति प्राहुः ॥ इदन्तु बोध्यं व्याप्तिज्ञानस्य कारणता च नोकोभयाभावादिविषयिताघटित रूपेण किन्तु हेतुतावच्छेदकावच्छिन्नविषयितानिरूपिताधिकरणत्वविषयतानिरूपिताधिकरणविषयतानिरूपितवृत्तित्वविषयता घटिरूपेणैव तथैव व्याप्तिज्ञानस्यानुमितिकारणस्यानुव्यवसीयमानत्वात् धूमवद्वृत्त्यभावप्रतियो.
६८
गितानवच्छेदकत्वग्रहे धूमवत्त्वस्य धूमत्वावच्छिन्नाधिकरणतात्वेनावगाहनम्विषयितया धूमवदृत्यभावप्रतियोगितानवच्छेदकत्वग्रहे च धूमत्वेतरधमानवच्छिन्नाधिकरणतात्वेन धूमवत्त्वस्यावगाहनान्न प्र मात्वस्यानुपपत्तिः उक्तोभयाभावस्य शब्दानुगमानुरोधेन व्याप्तिएव हेत्वधिकरणत्वपरिचायकतया प्रवेश इति ॥ ॥ अथानयोरेकमनुसृत्य विचारप्रसङ्गः तत्र स्वावच्छिन्नानुयोगिताकपर्थ्योतिकावच्छेदकता कनिरूपकताकयनिष्ठाधिकरणत्वं तादृशावच्छेदकताकाधिकरणतावद्यनिष्ठाधिकरणत्वापेक्षया लघुभूतङ्कृतो न निवेशितमिति पर्य्यनुयोगे प्रतिविधानमुच्यते कैश्चित् तथाहि तादृशाधिकरणत्वस्य यत्पदार्थपरिचायकतयैव प्रवेशेनाभाव कोटा
प्रवेशादस्मत्पक्ष एवं लाघवं युष्मत्पक्षे च तादृशावच्छेदकताकनिरूपकताकत्वस्य परिचायकत्वस्यासम्भवात् पर्वतादिनिष्ठत'दधिकरणताघटितो भयाभावप्रतियोगितावच्छेदकत्वस्य लाघवेन प्रतियोग्यंशे भासमाने तदधिकरणताघटितोभयत्वस्यैव कल्पनीयतया पर्वतादीनां तादृशोभयाभावप्रतियोगितानिरूपित परम्परावच्छेदकत्वरूपत्वधिकरणत्वानुपपत्तेरिति तन्न महानसानुयोगिकसंयोगेन धूमदेतुके महानसनिष्ठमहासानुयोगिक संयोगसम्बन्धाव
लक्षण
" Aho Shrutgyanam"